________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 642 // सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह- तद्यथा- श्रुतं मयाऽऽयुष्मता तु भगवतेदमाख्यातम्, तद्यथा-आहारपरिज्ञेदमध्ययनम्, श्रुतस्कन्ध:२ तस्य चायमर्थः- प्राच्यादिषु दिक्षु सर्वत इत्यूर्वाधो विदिक्षु च सव्वावंति त्ति सर्वस्मिन्नपि लोके क्षेत्रे प्रज्ञापकभावदिगाधार- तृतीयमध्ययनं आहारपरिज्ञा, भूतेऽस्मिन् लोके चत्वारो बीजकाया बीजमेव कायो येषां ते तथा, बीजं वक्ष्यमाणम्, चत्वारो बीजप्रकाराः समुत्पत्तिभेदा सूत्रम् 43-55 भवन्ति, तद्यथा- अग्रे बीजं येषामुत्पद्यते ते तलतालीसहकारादयः शाल्यादयो वा, यदिवाऽग्राण्येवोत्पत्तौ कारणतांप्रतिपद्यन्ते / (678-690) बीजकाय येषांकोरण्टादीनां ते अग्रबीजाः, तथा मूलबीजा आर्द्रकादयः, पर्वबीजास्त्विक्ष्वादयः,स्कन्धबीजाः सल्लक्यादयः, नागार्जुनीया चतुष्टयादिः स्तु पठन्ति- वणस्सइकाइयाण पंचविहा बीजवक्कंती एवमाहिज्जइ- तंजहा- अग्गमूलपोरुक्खंधबीयरुहा छट्ठावि एगेंदिया संमुच्छिमा / बीया जायते यथा दवदग्धस्थलीषु नानाविधानि हरितान्युद्भवन्ति पद्मिन्यो वाऽभिनवतडागादाविति / तेषांच चतुर्विधानामपि वनस्पतिकायानां यद्यस्य बीजं- उत्पत्तिकारणं तद्यथाबीजं तेन यथाबीजेनेति, इदमुक्तं भवति-शाल्यङ्करस्य शालिबीजमुत्पत्तिकारणम्, एवमन्यदपि द्रष्टव्यम्, यथावकाशेने ति यो यस्यावकाशः- यद्यस्योत्पत्तिस्थानमथवा भूम्यम्बुकालाकाशबीजसंयोगा यथावकाशो गृह्यते तेनेति, तदेवं यथाबीजं यथावकाशेन च इह अस्मिन् जगत्येके केचन सत्त्वा ये तथाविधकर्मोदयाद्वनस्पतित्पित्सवः, ते हि वनस्पतावुत्पद्यमाना अपि पृथिवीयोनिका भवन्ति, यथा तेषां वनस्पतिबीजं कारणमेवमाधारमन्तरेणोत्पत्तेरभावात्पृथिव्यपि शैवालजम्बालादेरुदकवदिति, तथा पृथिव्यां संभवः- सदा भवनं येषां वनस्पतीनां ते तथा, इदमुक्तं भवति- न केवलं ते तद्योनिकाः तस्थितिकाश्चेति, तथा पृथिव्यामेव विविधमुत्- प्राबल्येन क्रमः- क्रमणं // 642 // येषां ते पृथिव्युत्क्रमाः, इदमुक्तं भवति-पृथिव्यामेव तेषामूर्ध्वंक्रमणलक्षणा वृद्धिर्भवति, एवं च ते तद्योनिकास्तत्संभवास्तव्युत्क्रमा (c) दग्धवनस्थलीषु (मु०)। ७०वकाशे गृहयन्ते (मु०)।