________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 613 // वदुरध्यवसाय: श्रमणभावोऽनुपाल्यते तमर्थं-सम्यग्दर्शनज्ञानचारित्राख्यमाराध्य अव्याहतमेकमनन्तरं मोक्षकारणं केवलज्ञान श्रुतस्कन्ध:२ माप्नुवन्ति, केवलज्ञानावाप्तेरुर्ध्वं सर्वदुःखविमोक्षलक्षणं मोक्षमवाप्नुवन्तीति // एके पुनरेकयाऽर्चया- एकेन शरीरेणैकस्माद्वान द्वितीयमध्ययन क्रियास्थानम्, भवात्सिद्धिगतिंगन्तारोभवन्ति, अपरे पुनस्तथाविधपूर्वकर्मावशेषे सति तत्कर्मवशगाः कालं कृत्वा अन्यतमेषु वैमानिकेषु देवेषूत्पद्यन्ते तत्रेन्द्रसामानिकत्रायस्त्रिंशलोकपालपार्षदात्मरक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्तीति, न(ग्रन्था० १००००)त्वाभियोगिक (673) आनारम्भादिकिल्बिषिकादिष्विति / एतदेवाह- तंजहे त्यादि, तद्यथा महादिषु देवलोकेषूत्पद्यन्ते। देवास्त्वेवंभूता भवन्तीति दर्शयति गुणाः तेणं तत्थ देवा इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महादिगुणोपेता भवन्तीत्यादिकः सामान्यगुणवर्णकः, सूत्रम् 39 ततो हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः, पुनरतिशयापादनार्थं दिव्यरूपादिप्रतिपादनं चिकीर्षुराह- दिवेणं (674) अल्पेच्छादि रूवेण मित्यादि, दिवि भवं दिव्यं तेन रूपेणोपपेता यावद्दिव्यया द्रव्यलेश्ययोपपेता दशापि दिशः समुद्योतयन्तः, तथा गुणाः प्रभासयन्तः अलंकुर्वन्तो गत्या देवलोकरूपया कल्याणाः- शोभना गत्या वा- शीघ्ररूपया प्रशस्तविहायोगतिरूपया वा कल्याणा:,तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते भवन्ति,तथाऽऽगामिनि काले भद्रकाः शोभनमनुष्यभवरूपसंपदुपपेताः, तथा सद्धर्मप्रतिपत्तारश्च भवन्तीति // 38 // 673 // तदेतत्स्थानमार्यमेकान्तेनैव सम्यग्भूतं सुसाध्विति एतद्वितीयस्य स्थानस्य धर्मपाक्षिकस्य विभङ्ग एवमाख्यातः॥ ____ अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ- इह खलु पाईणं वा 4 संतेगतिया मणुस्सा भवंति, तंजहा- अप्पिच्छा // 613 // अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति सुसीला सुव्वया सुपडियाणंदा साहू (r) मनन्तं मोक्ष० (मु०)। 0 सुसाध्वितीत्येत० (मु०)।