SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 568 // श्रुतस्कन्धः 2 द्वतीयमध्ययन क्रियास्थानम्, सूत्रम् 22 (657) अदत्तादान दण्डः सूत्रम् 23 (658) अध्यात्म व्यापादयेत् तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्व भवतीति अतो दृष्टिविपर्यासदण्डोऽयम् // पुनरप्यन्यथा तमेवाह- से जहे त्यादि, तद्यथा नाम कश्चित्पुरुषः पुरुषकारमुद्वहन् ग्रामघातादिके विभ्रमे भ्रान्तचेता दृष्टिविपर्यासादचौरमेव चौरोऽयमित्येवं मन्यमानो व्यापादयेत्, तदेवं तेन भ्रान्तमनसा विभ्रमाकुलेनाचौर एव हतपूर्वो भवति, सोऽयं दृष्टिविपर्यासदण्डः, तदेवं खलु तस्य दृष्टिविपर्यासवत् तत्प्रत्ययिकं सावधं कर्माधीयते / तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्ययिकमाख्यातमिति // 21 // 656 // ____अहावरे छट्टे किरियट्ठाणे मोसावत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे आयहेउं वा णाइहेउंवा अगारहेउं वा परिवारहेडंवा सयमेव मुसं वयति अण्णेणवि मुसं वाएइ मुसं वयंतंपि अण्णं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, छट्टे किरियट्ठाणे मोसावत्तिएत्ति आहिए। सूत्रम् 22 // ( // 657 // ) अथापरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते, तत्र च पूर्वोक्तानां पञ्चानां क्रियास्थानानां सत्यपि क्रियास्थानत्वे प्रायशः परोपघातो भवतीतिकृत्वा दण्डसमादानसंज्ञा कृता, षष्ठादिषु च बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानमित्येषा संज्ञोच्यते, तद्यथा नाम कश्चित्पुरुषः स्वपक्षावेशादाग्रहादात्मनिमित्तं यावत्परिवारनिमित्तं वा सद्भूतार्थनिह्नवरूपमसद्भूतोद्भावनस्वभावं वा स्वयमेव मृषावादं वदति, तद्यथा- नाहं मदीयो वा कश्चिच्चौरः, स च चौरमपि सद्भूतमप्यर्थमपलपति, तथा परमचौरं चौरमिति वदति, तथाऽन्येन मृषावादं भाणयति, तथाऽन्यांश्च मृषावादं वदतः समनुजानीते। तदेवं खलु तस्य योगत्रिककरणत्रिकेण मृषावादं वदतस्तत्प्रत्ययिकं सावद्यं कर्म आधीयते सम्बध्यते, तदेतत्षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यातमिति // 22 // 657 // अहावरे सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे आयहेउं वा जाव परिवारहेडं वा सयमेव दण्डः // 568 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy