________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 469 // श्रुतस्कन्धः१ पञ्चदशमध्ययनं आदानीयम्, सूत्रम् 5-8 (611-614) आवरणक्षयात् सर्वज्ञः धर्माराधक: वा नामशब्दः, संभाव्यते चास्य भगवतः कर्मपरिज्ञानं विज्ञाय च कर्मबन्धं तत्संवरणनिर्जरणोपायं चासौ महावीरः कर्मदारणसहिष्णुस्तत्करोति येन कृतेनास्मिन् संसारोदरे न पुनर्जायते तदभावाच्च नापि म्रियते, यदिवा-जात्या नारकोऽयं तिर्यग्योनिकोऽयमित्येवं न मीयते-न परिच्छिद्यते, अनेन च कारणभावात्संसाराभावाविर्भावनेन यत्कैश्चिदुच्यते-ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् // 1 // इत्येतदपि व्युदस्तं भवति, संसारस्वरूपं विज्ञाय तदभावः क्रियते, न पुनः सांसिद्धिकः कश्चिदनादिसिद्धोऽस्ति, तत्प्रतिपादिकाया युक्तेरसंभवादिति // 7 // 613 // किं पुनः कारणमसौ न जात्यादिना मीयते इत्याशङ्कयाह- असौ महावीरः परित्यक्ताशेषकर्मा न जात्यादिना मीयते परिच्छिद्यते, न म्रियते वा, जातिजरामरणरोगशोकैर्वा संसारचक्रवाले पर्यटन न म्रियते- न पूर्यते, किमिति?, यतस्तस्यैव जात्यादिकं भवति यस्य पुरस्कृ(राकृ)तं जन्मशतोपात्तं कर्म विद्यते, यस्तु भगवतो महावीरस्य निरुद्धाश्रवद्वारस्य नास्ति न विद्यते पुरस्कृ(राकृ)तम्, पुरस्कृ(राकृ)तकर्मोपादानाभावाच्च न तस्य जातिजरामरणैर्भरणं संभाव्यते, तदाश्रवद्वारनिरोधाद्, आश्रवाणां च प्रधानः स्त्रीप्रसङ्गस्तमधिकृत्याह-वायुर्यथा सततगतिरप्रतिस्खलिततया अग्निज्वालादहनात्मिकामप्यत्येति-अतिक्रामति पराभवति, न तया पराभूयते, एवं लोके मनुष्यलोके हावभावप्रधानत्वात् प्रिया दयितास्तत्प्रियत्वाच्च दुरतिक्रमणीयास्ता अत्येतिअतिक्रामति नताभिर्जीयते, तत्स्वरूपावगमात् तज्जयविपाकदर्शनाच्चेति, तथा चोक्तं-स्मितेन भावेन मदेन लज्जया, पराङ्गखैरर्धकटाक्षवीक्षितैः / वचोभिरीष्ाकलहेन लीलया, समस्तभावैः खलु बन्धनं स्त्रियः॥१॥तथा स्त्रीणां कृते भ्रातृयुगस्य भेदः, सम्बन्धिभेदे स्त्रीवशताफलस्य नरकादेः दर्शनात् यद्वा स्त्रीणां वशवर्ती न भवतीति प्रागुक्तम्, असंभवि चेन्न, तत्स्वरूपेत्यादि, अनर्थकारित्वावगमाद् विरतिः, तत्र प्रमाण कामजयलभ्यफलदर्शनं जयोपायस्य भोगजन्यदारुणविपाकस्य च ज्ञानाद्वा। 0 समन्तपाशं (प्र०)। // 469 //