________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 400 // ये केचन व्यन्तरभेदा राक्षसात्मानः, तद्हणाच्च सर्वेऽपि व्यन्तरा गृह्यन्ते तथा यमलौकिकात्मानः, अ(म्बाम्ब)म्बादयस्त | श्रुतस्कन्ध:१ दुपलक्षणात्सर्वे भवनपतयः तथा ये च सुराः सौधर्मादिवैमानिकाः, चशब्दाज्ज्योतिष्काः सूर्यादयः, तथा ये गान्धर्वा विद्याधरा द्वादश मध्ययन व्यन्तरविशेषा वा, तद्हणं च प्राधान्यख्यापनार्थम्, तथा कायाः पृथिवीकायादयः षडपि गृह्यन्त इति / पुनरन्येन प्रकारेण समवसरणम्, सत्त्वान्संजिघृक्षुराह- ये केचन आकाशगामिनः संप्राप्ताकाशगमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः, तथा ये च। सूत्रम् 13-16 (547-550) पृथिव्याश्रिताः पृथिव्यप्तेजोवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियास्ते सर्वेऽपि स्वकृतकर्मभिः पुनःपुनर्विविधं- अनेकप्रकारं पर्यासं प्रवादचतुष्कं परिक्षेपमरहट्टघटीन्यायेन परिभ्रमणमुप-सामीप्येन यान्ति- गच्छन्तीति // 13 // 547 // किञ्चान्यत्-यं संसारसागरं आहुः-3 परतीर्थिक उक्तवन्तस्तीर्थकरगणधरादयस्तद्विदः, कथमाहुः?- स्वयम्भुरमणसलिलौघवदपारम्, यथा स्वयम्भुरमणसलिलौघो न परिहारंच केनचिजलचरेण स्थलचरेण वा लयितुं शक्यते एवमयमपि संसारसागरः सम्यग्दर्शनमन्तरेण लवयितुं न शक्यत इति दर्शयति-जानीहि अवगच्छ णमिति वाक्यालङ्कारे, भवगहनमिदं-चतुरशीतियोनिलक्षप्रमाणं यथासम्भवं सङ्खयेयासङ्खयेयानन्तस्थितिकं दुःखेन मुच्यत इति दुर्मोक्ष-दुरुत्तरमस्तिवादिनामपि , किं पुनर्नास्तिकानां?, पुनरपि भवगहनोपलक्षितं संसारमेव / / विशिनष्टि- यत्र यस्मिन् संसारे सावद्यधर्मानुष्ठायिनः कुमार्गपतिता असत्समवसरणग्राहिणो विषण्णा अवसक्ता विषयप्रधाना अङ्गना विषयाङ्गनास्ताभिः, यदिवा विषयाश्चाङ्गनाश्च विषयाङ्गनास्ताभिर्वशीकृताः सर्वत्र सदनुष्ठानेऽवसीदन्ति, त एवं विषयाङ्गनादिके पङ्के विषण्णा द्विधाऽपि आकाशाश्रितं पृथिव्याश्रितं च लोकम्, यदिवा स्थावरजङ्गमलोकं अनुसञ्चरन्ति / गच्छन्ति, यदिवा-'द्विधाऽपि' इति लिङ्गमात्रप्रव्रज्ययाऽविरत्या च रागद्वेषाभ्यांवालोकं-चतुर्दशरज्वात्मकं स्वकृतकर्मप्रेरिता O०पारगम् (प्र०)। 0 सम्यग्दर्शनिनम० (प्र०)। 0 ०कर्मानुष्ठा० (मु०)। // 400 //