SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 337 // श्रुतस्कन्धः१ दशममध्ययनं समाधिः, सूत्रम् 1-4 (473-476) अप्रतिज्ञोऽनिदान: समस्तपदार्थपरिज्ञानं तद्विद्यते यस्यासौ मतिमान् केवलज्ञानीत्यर्थः, तत्रासाधारणविशेषणोपादानात्तीर्थकृद्गृह्यते, असावपि प्रत्यासत्तेर्वीरवर्धमानस्वामी परिगृह्यते, किमाख्यातवान्?- धर्मं श्रुतचारित्राख्यम्, कथं?-अनुविचिन्त्य- केवलज्ञानेन ज्ञात्वा प्रज्ञापनायोग्यान पदार्थानाश्रित्य धर्म भाषते, यदिवा-ग्राहकमनुविचिन्त्य कस्यार्थस्यायं ग्रहणसमर्थः? तथा कोऽयं पुरुषः? कञ्च नतः? किं वा दर्शनमापन्न? इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते- यथा प्रत्येकमस्मदभिप्रायमनुविचिन्त्य भगवान् धर्मभाषते, युगपत्सर्वेषां स्वभाषापरिणत्या संशयापगमादिति, किंभूतं धर्मं भाषते?- ऋजु अवक्रं यथावस्थितवस्तुस्वरूपनिरूपणतो, न यथाशाक्याः सर्वं क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतनत्वेनाभ्युपगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं स्वतो न स्पृशन्ति अपरेण तु तत्परिग्रहतः क्रयविक्रयंकारयन्ति, तथा साङ्ख्याः सर्वमप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसङ्गदोषभयादाविर्भावतिरोभावावाश्रितवन्त इत्यादिकौटिल्यभावपरिहारेणावळं तथ्यं धर्ममाख्यातवान्, तथा सम्यगाधीयते- मोक्षं तन्मार्ग वा प्रत्यात्मा योग्यः क्रियते व्यवस्थाप्यते येन धर्मेणासौ धर्मः समाधिस्तं समाख्यातवान्, यदिवा-धर्ममाख्यातवांस्तत्समाधिं च धर्मध्यानादिकमिति / सुधर्मस्वाम्याह- तमिमं- धर्मं समाधिं वा भगवदुपदिष्टं शृणुत यूयम्, तद्यथा-न विद्यते ऐहिकामुष्मिकरूपा प्रतिज्ञा-आकाङ्क्षा तपोऽनुष्ठानं कुर्वतो यस्यासावप्रतिज्ञो, भिक्षणशीलो भिक्षुः तुर्विशेषणे भावभिक्षुः, असावेव परमार्थतः साधुः, धर्मं धर्मसमाधिं च प्राप्तोऽसावेवेति, तथा न विद्यते निदानमारम्भरूपं भूतेषु जन्तुषु यस्यासावनिदान भूतः स एवम्भूतः सावधानुष्ठानरहितः परि- समन्तात्संयमानुष्ठाने व्रजेद् गच्छेदिति, यदिवा® अत्रा० (प्र०)। (r) स्वामी गृह्यते (मु०)। (c) सावनिदानः (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy