________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 279 // कुशील कृतकारितानुमत्यौद्देशिकादिपरिभोगाच्चाग्निकायसमारम्भं कुर्युरित्यर्थः, अथेति वाक्योपन्यासार्थः, आहु रिति तीर्थकृद्गण- श्रुतस्कन्धः१ धरादय एवमुक्तवन्तः यथा सोऽयं पाषण्डिको लोको गृहस्थलोको वाऽग्निकायसमारम्भात् कुशीलः- कुत्सितशीलो धर्मो सप्तममध्ययनं यस्य स कुशीलधर्मा, अयं किम्भूत इति दर्शयति- अभूवन् भवन्ति भविष्यन्तीति भूतानि-प्राणिनस्तान्यात्मसुखार्थं हिनस्ति परिभाषा, व्यापादयति, तथाहि-पञ्चाग्नितपसा निष्टप्तदेहास्तथाऽग्निहोत्रादिकया च क्रियया पाषण्डिकाः स्वर्गावाप्तिमिच्छन्तीति, (385-386) तथा लौकिकाः पचनपाचनादिप्रकारेणाग्निकार्य समारभमाणाः सुखमभिलषन्तीति // 5 // 385 // अग्निकायसमारम्भे च पृथ्व्यादियथा प्राणातिपातो भवति तथा दर्शयितुमाह- तपनतापनप्रकाशादिहेतुं काष्ठादिसमारम्भेण योऽग्निकार्य समारभते सोऽग्नि-2 जीवानामारम्भः कायमपरांश्च पृथिव्याद्याश्रितान् स्थावरांस्त्रसांश्च प्राणिनो निपातयेत्, त्रिभ्यो वामनोवाक्कायेभ्य आयुर्बलेन्द्रियेभ्योवा पातयेन्नि गृद्ध्यादिश्च पातयेत् त्रिपातयेत्, तथाऽग्निकायमुदकादिना / निर्वापयन् विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनो निपातयेत्रिपातयेद्वा तत्रोज्ज्वालकनिर्वापकयोर्योऽग्निकायमुज्ज्वलयति स बहूनामन्यकायानां समारम्भकः, तथा चागमः- दो भंते! पुरिसा अन्नमन्नेण सद्धिं अगणिकायं समारभंति, तत्थ णं एगे पुरिसे अगणिकायं उज्जालेइ एगे णं पुरिसे अगणिकायं निव्ववेइ, तेसिं भंते! पुरिसाणं कयरे / पुरिसे महाकम्मतराए कयरे वा पुरिसे अप्पकम्मतराए?, गोयमा! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतराग पुढविकायं समारभति, एवं आउकायं वाउकायं वणस्सइकायं तसकायं अप्पतरागं अगणिकायं समारभइ, तत्थ णं जे से पुरिसे अगणिकाय निव्वावेइ से णं पुरिसे अप्पतरागं पुढविकायं समारभइ जाव अप्पतरागं तसकायं समारभइ बहुतरागं अगणिकायं समारभइ, से एतेणं / // 279 // अटेणं गोयमा! एवं वुच्चइ॥अपिचोक्तं- भूयाणं एसमाघाओ, हव्ववाहो, ण संसओइत्यादि। यस्मादेवं तस्मात् मेधावी सदसद्विवेकः ®भूतानामेष आघातो हव्यवाहो न संशयः / /