SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 277 // जाईपहं अणुपरिवट्टमाणे, तसथावरेहिं विणिघायमेति / से जाति जातिं बहुकूरकम्मे, जंकुव्वती मिन्जति तेण बाले॥सूत्रम् 3 // श्रुतस्कन्धः 1 ( // 383 // ) सप्तममध्ययन कुशीलअस्सिंच लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा / संसारमावन्न परं परं ते, बंधति वेदंति य दुन्नियाणि / / सूत्रम् 4 // परिभाषा, ( // 384 // ) सूत्रम् 3-4 जातीनां- एकेन्द्रियादीनां पन्था जातिपथः, यदिवा- जाति:- उत्पत्तिर्वधो- मरणं जातिश्च वधश्च जातिवधं तद् अनुपरिवर्त (383-384) पृथ्व्यादिमानः एकेन्द्रियादिषु पर्यटन् जन्मजरामरणानि वा बहुशोऽनुभवन् त्रसेषु तेजोवायुद्वीन्द्रियादिषु स्थावरेषु च पृथिव्यम्बुवनस्पतिषु जीवानामारम्भः समुत्पन्नः सन् कायदण्डविपाकजेन कर्मणा बहुशो विनिघातं विनाशमेति- अवाप्नोति स आयतदण्डोऽसुमान् जातिं जाति गृझ्यादिश्व उत्पत्तिमुत्पत्तिमवाप्य बहूनि क्रूराणि- दारुणान्यनुष्ठानानि यस्य स भवति बहुक्रूरकर्मा, स एवम्भूतो निर्विवेकः सदसद्विवेकशून्यत्वात् बाल इव बालो यो ऽस्यामेकेन्द्रियादिकायां जातौ यत्प्राण्युपमर्दकारि कर्म कुरुते स तेनैव कर्मणा मीयते भ्रियते / पूर्यते यदिवा 'मीङ् हिंसायां' मीयते हिंस्यते अथवा- बहुक्रूरकर्मेति चौरोऽयं पारदारिकं इति वा इत्येवं तेनैव कर्मणा मीयते- परिच्छिद्यत इति // 3 // 383 // व पुनरसौ तैः कर्मभिर्मीयते इति दर्शयति- यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ, तस्य कर्म विपाकं दददेकस्मिन्नेव जन्मनि विपाकं तीव्र ददाति शताग्रशो वे ति बहुषु जन्मसु, येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते तथा- अन्यथा वेति, इदमुक्तं भवति-किञ्चित्कर्म तद्भव एव विपाकं ददाति किञ्चिच्च जन्मान्तरे, यथा- मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुताङ्गश्रुतस्कन्धे कथितमिति, 0 बालो यस्या० (मु०)। 0 नरकादौ तस्य...ददति एकस्मि०...ददति (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy