SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 251 // नरक क्षारपूयरुधिराविलं जलं यस्यां सा प्रविजला यदिवा पविज्जल ति रुधिराविलत्वात् पिच्छिला, विस्तीर्णगम्भीरजला वा। श्रुतस्कन्धः१ अथवा प्रदीप्तजला, एतदेव दर्शयति- अग्निना तप्तं सत् विलीनं द्रवतां गतं यल्लोहं- अयस्तद्वत्तप्ता, अतितापविलीनलोह- पञ्चममध्ययन नरकविभक्तिः, सदृशजलेत्यर्थः, यस्यां च सदाजलायां अभिदुर्गायां नद्यां प्रपद्यमाना नारकाः एगाय त्ति एकाकिनोऽत्राणा अनुक्रमणं तस्यां द्वितीयोद्देशकः गमनं प्लवनं कुर्वन्तीति // 21 // 347 / साम्प्रतमुद्देशकार्थमुपसंहरन् पुनरपि नारकाणां दुःखविशेषं दर्शयितुमाह- एते सूत्रम् 23 अनन्तरोद्देशकद्वयाभिहिताः स्पर्शाः दुःखविशेषाः परमाधार्मिकजनिताः परस्परापादिताः स्वाभाविका वेति अतिकटवो रूपरसगन्धस्पर्शशब्दाः अत्यन्तदुःसहा बालमिव बालं अशरणं स्पृशन्ति दुःखयन्ति निरन्तरं अविश्रामं 'अच्छिनिमीलय दुःखोपक्रमः मित्यादिपूर्ववत् तत्र तेषु नरकेषु चिर-प्रभूतं कालं स्थितिर्यस्य बालस्यासौ चिरस्थितिकस्तम्, तथाहि- रत्नप्रभायामुत्कृष्टा स्थितिः सागरोपमम्, तथा द्वितीयायां शर्करप्रभायां त्रीणि, तथा वालुकायां सप्त, पङ्कायां दश, धूमप्रभायां सप्तदश तमःप्रभायां द्वाविंशतिर्महातमःप्रभायां सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा स्थितिरिति, तत्र च गतस्य कर्मवशापादितोत्कृष्टस्थितिकस्य परैर्हन्यमानस्य स्वकृतकर्मफलभुजो न किञ्चित्राणं भवति, तथाहि- किल सीतेन्द्रेण लक्ष्मणस्य नरकदुःखमनुभवतस्तत्त्राणोद्यतेनापि न त्राणं कृतमिति श्रुतिः, तदेवमेकः- असहायो यदर्थं तत्पापं समर्जितं तै रहितस्तत्कर्मविपाकजं दुःखमनुभवति, न कश्चिद्दुःखसंविभागंगृह्णातीत्यर्थः, तथा चोक्तं- मया परिजनस्यार्थे, कृतं कर्म सुदारुणम्। एकाकी तेन दोऽहं, गतास्ते फलभोगिनः॥१॥इति // 22 // 348 // किञ्चान्यत् // 251 // जंजारिसंपुव्वमकासि कम्म, तमेव आगच्छति संपराए। एगंतदुक्खं भवमजणित्ता, वेदंतिदुक्खी तमणंतदुक्खं ॥सूत्रम् 23 // (c) विस्तीर्णा (प्र०)। (c) जला वा एत० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy