________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 249 // नरकदुःखोपक्रमः रुधिरादिना तथा कण्टकाकुलां भूमिमनुक्रामन्तो मन्दगतयो बलात्प्रेर्यन्ते, तथा अन्यान् विषण्णचित्तान् मूर्च्छितान् सूर्पकाकारान् / श्रुतस्कन्धः 1 विविधं अनेकधा बद्धा ते नरकपालाः समीरिताः पापेन कर्मणा चोदितास्तान्नारकान् कुट्टयित्वा खण्डशः कृत्वा बलिं को पञ्चममध्ययन नरकविभक्तिः, त्ति नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थः, यदिवा कोट्टबलिं कुर्वन्तीति // 16 // 342 // किञ्च द्वितीयोद्देशकः वेतालिएनाम महाभितावे, एगायतेपव्वयमंतलिक्खे। हम्मंति तत्था बहुकूरकम्मा, परंसहस्साण मुहत्तगाणं॥सूत्रम् 17 // // 343 // ) सूत्रम् 17-19 (343-345) संबाहिया दुक्कडिणोथणंति, अहो य राओ परितप्पमाणा। एगंतकूडे नरए महंते, कूडेण तत्था विसमेहता उ॥सूत्रम् 18 // // 344||) नामशब्दः सम्भावनायाम्, सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे महाभितापेमहादुःखैककार्ये एकशिलाघटितो दीर्घः वेयालिए त्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः तत्र तमोरूपत्वान्नरकाणामतो हस्तस्पर्शिकाया समारुहन्तो नारका हन्यन्ते पीड्यन्ते, बहूनि क्रूराणिजन्मान्तरोपात्तानि कर्माणि येषां ते तथा, सहस्रसंख्यानां मुहूर्तानां परं-प्रकृष्टं कालम्, सहस्रशब्दस्योपलक्षणार्थत्वात्प्रभूतं कालं हन्यन्त इतियावत् // 17 // 343 // तथा सम्- एकीभावेन बाधिताः पीडिता दुष्कृतं-पापं विद्यते / येषां ते दुष्कृतिनो महापापाः अहो अहनि तथा रात्रौ च परितप्यमाना अतिदुःखेन पीड्यमानाः सन्तः करुणं-दीनं स्तनन्ति / आक्रन्दन्ति, तथैकान्तेन कूटानिदुःखोत्पत्तिस्थानानि यस्मिन् स तथा तस्मिन् एवम्भूते नरके महति विस्तीर्णे पतिताःप्राणिनस्तेन च कूटेन गलयन्त्रपाशादिना पाषाणसमूहलक्षणेन वा तत्र तस्मिन्विषमे हताः तुशब्दस्यावधारणार्थत्वात् स्तनन्त्येव केवलमिति // 18 // 344 // अपिच भंजंति णं पुव्वमरी सरोसं , समुग्गरे ते मुसले गहेतुं / ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति // सूत्रम् 19 // ®तांस्तर्पक० (मु०)। 0 बलिं कुर्वन्ति इतश्चेतश्च क्षिपन्तीत्यर्थः, यदिवा कोट्टबलिं कुर्वन्तीति, कुर्वति नगरबलिवत्-(प्र०)। // 249 //