________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 248 // श्रुतस्कन्ध:१ पञ्चममध्ययनं नरकविभक्तिः , द्वितीयोद्देशकः सूत्रम् 15-16 (341-342) नरकदुःखोपक्रमः तता तदवस्थमेव शत्रुमिव दण्डैः समारभन्ते ताडयन्ति इति // 13 // 339 / / किञ्च- बालस्य वराकस्य नारकस्य व्यथयतीति व्यथो-लकुटादिप्रहारस्तेन पृष्ठं भंजन्ति मोटयन्ति, तथा शिरोऽप्ययोमयेन घनेन भिन्दन्ति चूर्णयन्ति, अपिशब्दादन्यान्यप्यङ्गोपाङ्गानि द्रुघणघाँतैश्चूर्णयन्ति ते नारका भिन्नदेहाः चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्यां पार्धाभ्यांक्रकचादिना 'अवतष्टाः तनूकृताः सन्तस्तप्ताभिराराभिः प्रतुद्यमानास्तप्तत्रपुपानादिके कर्मणि विनियोज्यन्ते व्यापार्यन्त इति // 14 // 340 // किञ्च अभिमुंजिया रुद्द असाहुकम्मा, उसुचोइया हत्थिवहं वहति / एगं दुरूहित्तु दुवे ततो वा, आरुस्स विझंति ककाणओ से॥ सूत्रम् 15 / / ( // 341 // ) बाला बला भूमिमणुक्कमंता, पविजलं कंटइलं महतं / विवद्धतप्पेहिं विवण्णचित्ते, समीरिया कोट्टबलिं करिति ॥सूत्रम् 16 // ( // 342 // ) रौद्रकर्मण्यपरनारकहननादिके अभियुज्य व्यापार्य यदिवा- जन्मान्तरकृतं रौद्रं सत्त्वोपघातकार्य अभियुज्य' स्मारयित्वा असाधूनि- अशोभनानि जन्मान्तरकृतानि कर्माणि- अनुष्ठानानि येषां ते तथा तान् इषुचोदितान् शराभिघातप्रेरितान् हस्तिवाह वाहयन्ति नरकपालाः, यथा हस्ती वाह्यते समारुह्य एवं तमपि वाहयन्ति, यदिवा- यथा हस्ती महान्तं भारं वहत्येवं तमपि नारकं वाहयन्ति, उपलक्षणार्थत्वादस्योष्ट्रवाहं वाहयन्तीत्याद्यप्यायोज्यम्, कथं वाहयन्तीति दर्शयति- तस्य नारकस्योपर्येक द्वौ त्रीन् वा समारुह्य समारोप्य ततस्तं वाहयन्ति, अतिभारारोपणेनावहन्तं आरुष्य क्रोधं कृत्वा प्रतोदादिना विध्यन्ति तुदन्ति, 'से' तस्य नारकस्य ककाणओत्ति मर्माणि विध्यन्तीत्यर्थः // 15 // 341 // अपिच- बाला इव बालाः परतन्त्राः, पिच्छिलां Oपातै० प्र०। 0 मर्मणि (प्र०)। // 248 //