SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 246 // श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः , द्वितीयोद्देशकः सूत्रम् 9-10 (335-336) दुःखोपक्रमः समूसिया तत्थ विसूणियंगा, पक्खीहिं खजंति अओमुहेहिं। संजीवणी नाम चिरद्वितीया, जंसी पया हम्मइ पावचेया। सूत्रम् 9 // ( // 335 // ) तिक्खाहिं सूलाहि निवाययंति, वसोगयं सावययं वलद्धं / ते सूलविद्धा कलुणं थणंति, एगंतदुक्खं दुहओ गिलाणा ॥सूत्रम् / 10 // ( // 336 // ) तत्र नरके स्तम्भादौ ऊर्ध्वबाहवोऽधः शिरसो वा श्वपाकैर्बस्तवल्लम्बिताः सन्तः विसूणियंग त्ति उत्कृत्ताङ्गा अपगतत्वचः पक्षिभिः अयोमुखैः वज्रचञ्चभिः काकगृध्रादिभिर्भक्ष्यन्ते, तदेवं ते नारका नरकपालापादितैः परस्परकृतैः स्वाभाविकै छिन्ना भिन्नाः कथिता मूर्च्छिताः सन्तो वेदनासमुद्धातगता अपि सन्तोन म्रियन्ते अतो व्यपदिश्यते सञ्जीवनीवत् सञ्जीवनीजीवितदात्री नरकभूमिः, न तत्र गतः खण्डशश्छिन्नोऽपि म्रियते स्वायुषि सतीति, सा च चिरस्थितिकोत्कृष्टतस्त्रयस्त्रिंशत् यावत्सागरोपमाणि, यस्यां च प्राप्ताः प्रजायन्त इति प्रजाः- प्राणिनः पापचेतसो हन्यन्ते मुद्गरादिभिः, नरकानुभावाच्च मुमूर्षवोऽप्यत्यन्तपिष्टा अपि न म्रियन्ते, अपितु पारदवन्मिलन्तीति॥९॥३३५॥ अपिच-पूर्वदुष्कृतकारिणं तीक्ष्णाभिरयोमयीभिः शूलाभिः नरकपाला नारकमतिपातयन्ति, किमिव?- वशमुपगतं श्वापदमिव कालपृष्ठसूकरादिक स्वातन्त्र्येण लब्ध्वा कदर्थयन्ति, ते नारकाः शूलादिभिर्विद्धा अपि न म्रियन्ते, केवलं करुणं दीनं स्तनन्ति, न च तेषां कश्चित्त्राणायालं तथैकान्तेन उभयतः अन्तर्बहिश्च ग्लाना अपगतप्रमोदाः सदा दुःखमनुभवन्तीति // 10 // 336 // तथा___ सया जलं नाम निहं महतं, जंसी जलंतो अगणी अकट्ठो। चिटुंति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया। सूत्रम् 11 // ©भितावयंति (प्र०)। (r) मभितापयन्ति (प्र०)। 0 कालपृष्ठो मृगभेदे (हैमः)। // 246 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy