________________ श्रीस्थानाङ्का अभय० वृत्तियुतम् भाग-२ पञ्चममध्ययनं पञ्चस्थानम्, द्वितीयोद्देशकः सूत्रम् 414 हस्तकर्मादीनि गुरूणि // 552 // पेसणेणं च ५॥१॥इति। पंच अणुग्घातिता पं० तं०- हत्थाकम्मं करेमाणे मेहुणं पडिसेवेमाणे रातीभोयणं भुजेमाणे सागारितपिंडं भुजेमाणे रायपिंडं भुजेमाणे ॥सूत्रम् 414 // अणुघाइयत्ति न विद्यते उद्घातो- लघूकरणलक्षणो यस्य तपोविशेषस्य तदनुद्धातं यथाश्रुतदानमित्यर्थः, तद्येषां प्रतिषेवाविशेषतोऽस्ति तेऽनुद्घातिकाः, हस्तकर्म समयप्रसिद्धं तत्कुर्वाणो, मैथुनं- अब्रह्म अतिक्रमादिना सेवमानः, तथा भुज्यत इति भोजनं रात्रौ भोजनं रात्रिभोजनं तच्च द्रव्यतोऽशनादि, क्षेत्रतः समयक्षेत्रे कालतो दिवा गृहीतं दिवा भुक्तम्, दिवा गृहीतं रात्री भुक्तम्, रात्रौ गृहीतं दिवा भुक्तम्, रात्रौ गृहीतं रात्रौ भुक्तमित्येवं चतुर्भङ्गरूपं भावतो रागद्वेषाभ्यां तद्भुञ्जानोऽश्नन्नित्यर्थः, अत्र दोषा:- संतिमे सुहुमा पाणा (दशवै०नि० 6/24-26) इत्यादिश्लोकत्रयम्, तथा-जइवि हु फासुगदव्वं कुंथू पणगा तहावि दुप्पस्सा। पच्चक्खंनाणीविहु राईभत्तं परिहरंति॥१॥जइविय पिवीलिगाइ दीसंति पईवजोइउज्जोए। तहविखलु अणाइन्नं मूलवयविराहणा जेणं॥२॥ (बृहत्क० 2863-64) तथा अगारं-गृहं सह तेन वर्त्तत इति सागारः स एव सागारिक:- शय्यातरस्तस्य पिण्डःआहारोपधिरूपोऽन्यस्त्वसौन भवति, उक्तंच-तणछारडगलमल्लगसेज्जासंथारपीढलेवाई। सेज्जायरपिंडो सो न होइ सेहो यसोवहिओ॥ 1 // (निशीथभा० 1154, बृहत्क० 3535) इति, सागारिकपिण्डस्तं भुजानः, तद्भोजने चामी दोषाः-तित्थकरपडिक्कुट्ठो यद्यपि द्रव्यं प्रासुकमेव तथापि कुन्थुपनका दुर्दर्शाः। प्रत्यक्षज्ञान्यपि रात्रिभक्तं परिहरति // 1 // यद्यपि च पिपीलिकादयो दृश्यन्ते प्रदीपज्योतिष उद्योते। तथापि अनाचीर्णमेव मूलव्रतविराधना येन // 2 // तृणक्षारडगलमल्लकशय्यासंस्तारकपीठलेपादिः / शय्यातरपिण्डो न स भवति सोपधिकः शैक्षश्च // 1|| तीर्थंकरप्रतिकृष्टोऽज्ञातत्वमुद्गमोऽपि . // 552 //