SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 934 // दशममध्ययनं दशस्थानम्, सूत्रम् 783 पापचयनदशप्रदेशिकादिपुद्गलाः प्रवेशनं वेदनं- अनुभवनं निर्जरा-जीवप्रदेशेभ्यः परिशटनमिति / पुद्गलाधिकार एवेदमाह- दसे त्यादि सूत्रवृन्दं सुगमंच, नवरं दश प्रदेशा येषां ते तथा त एव दशप्रदेशिका- दशाणुकाः स्कन्धाः- समुच्चया इति द्रव्यतः पुद्गलचिन्ता, तथा दशसु प्रदेशेष्वाकाशस्यावगाढा- आश्रिता दशप्रदेशावगाढा इति क्षेत्रतस्तथा दश समयान् स्थितिर्येषां ते तथेति कालतस्तथा दशगुण- एकगुणकालापेक्षया दशाभ्यस्तः कालो- वर्णविशेषो येषां ते दशगुणकालका एवमन्यैश्चतुर्भिर्वर्णाभ्यांगन्धाभ्यां पञ्चभी रसैरष्टाभिः स्पर्शेर्विशेषिताः पुद्गला अनन्ता वाच्या, अत एवाह- एव मित्यादि, जाव दसगुणलुक्खा पोग्गला अणंता पन्नत्ते त्यनेन भावतः पुद्गलचिन्तायां विंशतितम आलापको दर्शितः / इह चानन्तशब्दोपादानेन वृद्धयादिशब्देनेवान्तमङ्गलमभिहितम्, अयंचानन्तशब्द इह सर्वाध्ययनानामन्ते पठित इति सर्वेष्वप्यन्तमङ्गलतया बोद्धव्य इति // तदेवं निगमितमनुगमद्वारांशभूतं सूत्रस्पर्शकनियुक्तिद्वारम्, शेषद्वाराणि तु सर्वाध्ययनेषु प्रथमाध्ययनवदनुगमनीयानीति // इति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे दशस्थानकाख्यं दशममध्ययनं समाप्तमिति // ग्रन्थाग्रं 1714 // ॥श्रीमदभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये तृतीयाङ्गे दशस्थानाख्यं दशममध्ययनं समाप्तमिति॥ // 23
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy