SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 933 // दशममध्ययन दशस्थानम्, सूत्रम् 783 पापचयनदशप्रदेशिकादिपुदलाः फासेहिं दसगुणलुक्खा पोग्गला अणंता पण्णत्ता // सूत्रम् ७८३॥सम्मत्तं च ठाणमिति दसमं ठाणं सम्मत्तं 10, दसमं अज्झयणं सम्मत्तं 10 // इति श्रीस्थानाङ्गं तृतीयाङ्गसमाप्तम् ॥ग्रन्थाग्रं 3700 // जीवा ण मित्यादि, अथवा जातियोनिकुलादिविशेषा जीवाणां कर्मणश्चयोपचयादिभ्यो भवन्तीति त्रिकालभाविनो दशस्थानकानुपातेन कर्मणश्चयादीनाह-जीवाणमित्यादि, जीवा-जीवनधर्माणोन सिद्धा इति भावः।णमिति वाक्यालङ्कारे दशभिः-स्थानःप्रथमसमयैकेन्द्रियत्वादिभिः पर्यायहेतुभिर्ये निर्वर्त्तिता-बन्धयोग्यतया निष्पादितास्ते तथा दशभिः स्थानैर्निवृत्तिर्वा येषां ते तथा तान् पुद्गलान्-कर्मवर्गणारूपान् पापं-घातिकर्म सर्वमेव वा कर्म तच्च तत्क्रियमाणत्वात् कर्मच पापकर्म तद्भावस्तत्ता तया पापकर्मतया चिणिंसुत्ति चितवन्तो गृहीतवन्तश्चिन्वन्ति-गृह्णन्ति चेष्यन्ति-गृहीष्यन्त्यनेनात्मनां त्रिकालान्वयित्वमाह, सर्वथा अनन्वयित्वेऽकृताभ्यागमकृतविप्रणाशप्रसङ्गादिति, वाशब्दा विकल्पास्तद्यथा- प्रथमः समयो येषामेकेन्द्रियत्वस्य ते तथा ते च ते एकेन्द्रियाश्चेति प्रथमसमयैकेन्द्रियास्तैः सद्भिर्ये निर्वर्तिताः- कर्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा तान्, एतद्विपरीतैरप्रथमसमयैकेन्द्रियैर्निर्वर्त्तिता येते तथा तान्, एवं द्विभेदता द्वित्रिचतुष्पधेन्द्रियाणां प्रत्येकं वाच्येति, एतदेवातिदेशेनाह- जावेत्यादि, यथा चितवन्त इत्यादि कालत्रयनिर्देशेन सूत्रमुक्तमेवमुपचितवन्त इत्यादीन्यपि पञ्चवक्तव्यानीत्येतदेवाह- एवं चिणेत्यादि, इह चैवमक्षरघटना-चिणत्ति- यथा चयनं कालत्रयविशेषितमुक्तमेवमुपचयो बन्ध उदीरणा वेदना निर्जरा च वाच्याः। चेव त्ति समुच्चये नवरं चयनादीनामयं विशेषश्चयनं नाम कषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रम्, उपचयनं गृहीतानां ज्ञानावरणादिभावेन निषेचनं बन्धनं-निकाचनम्, उदीरणा- करणत उदये
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy