SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 921 // नाणाकीडाहिं कीडइ। न तत्थ कामभोगेहिं, तिव्वा उप्पज्जए मई॥१॥ (तन्दुलप्र० 33) तथा मन्दो- विशिष्टबलबुद्धिकार्यो- दशममध्ययन पदर्शनासमर्थो भोगानुभूतावेव च समर्थो यस्यामवस्थायां सा मन्दा, उक्तं च- तइयं च दसंपत्तो, आणुपुवीएँ जो नरो। समत्थो दशस्थानम्, सूत्रम् 772 भुंजिउ भोए, जइ से अत्थि घरे धुवा // 1 // (तन्दुलप्र० 34) इति, भोगोपार्जने तु मन्द इति भावना, तथा यस्यामवस्थायां बालादिपुरुषस्य बलं भवति सा बलयोगाद् बला, उक्तं च-चउत्थी य बला नाम, जं नरो दसमस्सिओ। समत्थो बलं दरिसेउं, जइ होइल दशादशकम् निरुवद्दवो॥१॥(तन्दुलप्र० 35) इति, तथा प्रज्ञाबुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिवृद्धिविषया वा तद्योगादशापि प्रज्ञा प्रकर्षेण जानातीति वा प्रज्ञा दशा तस्या एव कर्तृत्वविवक्षयेति, उक्तंच-पंचमिं च दसंपत्तो, आणुपुवीएँ जो नरो / इच्छियत्थं विचिंतेइ, कुटुंबं चाभिकंखइ॥१॥ (तन्दुलप्र० 36) इति, तथा हापयति पुरुषमिन्द्रियेष्विति- इन्द्रियाणि मनाक्स्वार्थग्रहणापटूनि , करोतीति हापयति प्राकृतत्वेन च हायणित्ति, आह च-छट्ठी उ हायणी नाम, जं नरो दसमस्सिओ। विरज्जई य कामेसु, इंदिएसु य हायइ॥१॥ (तन्दुलप्र० 37) इति, तथा प्रपञ्चते- व्यक्तीकरोति प्रपञ्चयति वा-विस्तारयति खेलकासादि या सा प्रपञ्चा प्रपञ्चयति वा-संसयति आरोग्यादिति प्रपञ्चा, आह च-सत्तमिं च दसं पत्तो, आणुपुवीएँ जो नरो। निच्छूहइ चिक्कणं खेलं, खासई य अभिक्खणं॥१॥ (तन्दुलप्र० 38) इति, तथा प्राग्भारमीषदवनतमुच्यते तदेवंभूतं गात्रं यस्यां भवति सा प्राग्भारा, नानाक्रीडाभिः क्रीडते / न तत्र कामभोगेषु तीव्रा मतिरुत्पद्यते॥१॥® तृतीयां मन्ददशां प्राप्त आनुपूर्व्या यो नरः / यदि तस्य निश्चिता भोगा गृहे सन्ति तान् भोक्तुं *समर्थः // 1 // चतुर्थी च बला नाम यां दशामाश्रितो नरः / बलं दर्शयितुं समर्थो यदि भवति निरुपद्रवः / / 1 / / 0 आनुपूर्व्या यो नरः पञ्चमी च दशां प्राप्तः। स8 ईप्सितार्थं विचिन्तयति कुटुम्बं चाभिकाह्नते॥१॥ 0 षष्ठी हायनी नाम्नी यां नरो दशामाश्रितः। कामेषु च विरज्यते इन्द्रियाणि च हीयन्ते // 1 // 7 सप्तमी प्रपञ्चा दशां प्राप्त आनुपूर्व्या यो नरश्चिक्कणं श्लेष्माणं निष्काशयति अभीक्ष्णं कासते च // 1 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy