SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 909 // नीतमनवसरमनयेति मन्यमानया मन्युना दर्पणेन चेटिका हता मृता च, ततो वैराग्यादनशनं प्रतिपद्य देवतया यया बभूवे, यया चोजयिनीराजं प्रति विक्षेपेण प्रस्थितस्य ग्रीष्मे मासि पिपासाभिभूतसमस्तसैन्यस्योदायनमहाराजस्य स्वच्छशीतलजलपरिपूर्णत्रिपुष्करकरणेनोपकारोऽकारीत्येवंलक्षणप्रभावतीचरितयुक्तमध्ययनं प्रभावतीति सम्भाव्यते,नचेदं निरयावलिकाश्रुतस्कन्धे दृश्यत इति पञ्चमम्, तथा बहुपुत्रिकादेवीप्रतिबद्धं सैवाध्ययनमुच्यते, तथाहि- राजगृहे महावीरवन्दनार्थं सौधर्माद्बहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम, केयमिति पृष्टे गौतमेन भगवानवादीत्- वाराणस्यां नगर्यां भद्राभिधानस्य सार्थवाहस्य सुभद्राभिधाना भार्येयं बभूव, सा च वन्ध्या पुत्रार्थिनी भिक्षार्थमागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ सच धर्ममचकथत प्रावाजीच्च, सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोद्वर्त्तनापरायणासातिचारा मृत्त्वासौधर्ममगमत्, ततश्च्युता च विभेले सन्निवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पितृभागिनेयभार्या भविष्यति युगलप्रसवा च, सा षोडशभिर्वर्षेः द्वात्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्याः प्रक्ष्यति ताश्च धर्म कथयिष्यन्ति श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रव्रजिष्यति, सौधर्मेचेन्द्रसामानिकतयोत्पद्य महाविदेहे सेत्स्यतीति / तथा स्थविरः- सम्भूतविजयो भद्रबाहुस्वामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता तद्वक्तव्यताप्रतिबद्धमध्ययनं स एवोच्यत इति नवमम्, शेषाणि त्रीण्यप्रतीतानीति / संक्षेपिकदशा अप्यनवगतस्वरूपा एव, तदध्ययनानां पुनरयमर्थः- खुड्डिए त्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजनंयत्राध्ययने तद्विमानप्रविभक्तिः। तच्चैकमल्पग्रन्थार्थ तथाऽन्यन्महाग्रन्थार्थमतः क्षुल्लिका विमानप्र- विभक्तिर्महती विमानप्रविभक्तिरिति, अङ्गस्य- आचारादेचूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुक्तार्थसङ्घाहिका चूलिका, वग्गचूलिय त्ति इह च वर्गोऽध्ययनादिसमूहो, यथा अन्तकृद्दशास्वष्टौ वर्गास्तस्य चूलिका वर्गचूलिका, विवाहचूलिय दशममध्ययन दशस्थानम्, सूत्रम् 754-756 छद्मस्थाज्ञेयाः केवलिज्ञेयाः पदार्थाः, दशाभेदाः, कर्मविपाकादि-दशादशकाध्ययनानि, उत्सर्पिण्यादिकालमानम् (तत्तदध्ययनकथानकानि) 909 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy