SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 898 // ___दसे त्यादि गतार्थम्, नवरं छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि जानात्येव, सव्वभावेणं ति। दशममध्ययनं सर्वप्रकारेण स्पर्शरसगन्धरूपज्ञानेन घटमिवेत्यर्थो, धर्मास्तिकायं यावत्करणादधर्मास्तिकायमाकाशास्तिकायं जीवम- दशस्थानम्, सूत्रम् शरीरप्रतिबद्धं परमाणुपुद्गलं शब्दं गन्धमिति, अय मित्यादि द्वयमधिकमिह, तत्रायमिति- प्रत्यक्षज्ञानसाक्षात्कृतो जिनः 754-756 केवली भविष्यति न वा भविष्यतीति नवमम्, तथाऽयं सव्वे त्यादि प्रकटं दशममिति / एतान्येव छद्मस्थानवबोध्यानि छद्मस्थाज्ञेयाः केवलिज्ञेयाः सातिशयज्ञानादित्वाजिनो जानातीति, आह च- एयाई इत्यादि, यावत्करणाद् 'जिणे अरहा केवली सव्वण्णू सव्वभावेण पदार्थाः, जाणइ पासइ, तंजहा-धम्मत्थिकाय'मित्यादि, यावद्दशमं स्थानम्, तच्चोक्तमेवेति / सर्वज्ञत्वादेवयान जिनोऽतीन्द्रियार्थप्रदर्श- दशाभेदाः, कान् श्रुतविशेषान् प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह- दस दसे त्याघेकादश सूत्राणि, तत्र दस त्ति दशसङ्ख्या कर्मविपा कादि-दशा'दसाउ' त्ति दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं स्त्रीलिङ्गंशास्त्रस्याभिधानमिति, कर्मणोऽशुभस्य विपाक:- दशकाध्यफलं कर्मविपाकस्तत्प्रतिपादिका दशाध्ययनात्मकत्वाद्दशाः कर्मविपाकदशा, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुत यनानि, उत्सर्पिण्यादिस्कन्धः। द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चासाविहाभिमतः, उत्तरत्र विवरिष्यमाणत्वादिति, तथा साधून कालमानम् उपासते-सेवन्त इत्युपासका:-श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशा-दशाध्ययनोपलक्षिता उपासकदशाः सप्तममङ्गमिति, (तत्तदध्ययनतथा अन्तो-विनाशः सच कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतस्ते च तीर्थकरादयस्तेषां दशा अन्तकृद्दशा, कथानकानि) इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममङ्गमभिहितम्, तथा उत्तर:- प्रधानो नास्योत्तरो विद्यत इत्यनुत्तर उपपतनमुपपातो जन्मेत्यर्थोऽनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां / तेऽनुत्तरोपपातिकाः सर्वार्थसिद्ध्यादिविमानपञ्चकोपपातिन इत्यर्थस्तद्वक्तव्यताप्रतिबद्धा दशा- दशाध्ययनोपलक्षिता // 898 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy