________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 846 // कार्षीदिति, आह च-मयहर पगए बहुपक्खिए य सत्तघर अंतर मयंमि। निढुक्खत्ति य गरहा न पढंति सणीयगं वावि // 1 // (आव०नि० 1361) इति तथा 'रायवुग्गहे'त्ति राज्ञांसडाम उपलक्षणत्वात्सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकम्, एवं पांशुपिष्टादिभण्डनान्यपि, यत एते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवता छलयेन्निर्दुःखा एत इत्युड्डाहो वाऽप्रीतिकं वा भवेदित्यतो यद्विग्रहादिकं यच्चिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्याय परिहरन्तीति, उक्तं च-सेणाहिव भोइय मयहरे य पुंसित्थिमल्लयुद्धे य। लोट्टाइभंडणे वा गुज्झग उड्डाह अचियत्तं // 1 // (आव०नि० 1359) इति, तथोपाश्रयस्य-वसतेरन्त:- मध्ये वर्तमानमौदारिकं मनुष्यादिसत्कं शरीरकं यधुद्भिन्नं भवति तदा हस्तशताभ्यन्तरेऽस्वाध्यायिकं भवति, अथानुदिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वय॑ते, परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भवतीति / पञ्चेन्द्रियशरीरमस्वाध्यायिकमित्यनन्तरमुक्तमिति पञ्चेन्द्रियाधिकारात्तदाश्रितसंयमासंयमसूत्रे गतार्थे / संयमासंयमाधिकारात् तद्विषयभूतानि सूक्ष्माणि प्ररूपयन्नाह दस सुहुमा पं० तं०- पाणसुहुमे पणगसुहुमे जाव सिणेहसुहुमे गणियसुहुमे भंगसुहुमे ।।सूत्रम् 716 // जंबूमंदिरदाहिणेणं गंगासिंधुमहानदीओ दस महानतीओ समप्यति, तं०- जउणा 1 सरऊ 2 आवी 3 कोसी 4 मही 5 सिंधू६ विवच्छा 7 विभासा 8 एरावती 9 चंद्रभागा 10 / जंबूमंदरउत्तरेणं रत्तारत्तवतीओ महानदीओ दस महानदीओ समप्येति, तं०किण्हा महाकिण्हा नीला महानीला तीरा महातीरा इंदा जाव महाभोगा॥ सूत्रम् 717 // ®महत्तरे प्रगते बहुपाक्षिके च (शय्यातरे वा) सप्तगृहाभ्यन्तरे मृते। निर्दुःखा इति गर्हेति न पठन्ति शनैर्वा // 1 // 0 सेनाधिपभोजिकमहत्तराणां पुस्त्रियोर्मल्लानां युद्धे च / पांशुपिष्टादिभण्डने वा गुह्यक उड्डाहोऽप्रीतिश्च // 1 // दशममध्ययन दशस्थानम्, सूत्रम् 716-726 प्राणादीनि भंगान्तानि सूक्ष्माणि, गंगादिसमगतनद्यः, भरतराजधान्यः तत्प्रव्रजिता नृपाश्च, इत्यादि // 846 //