________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 835 // मृत्वेत्यर्थः / तत्थेव त्ति लोकदेशे गतौ योनौ कुलेवासान्तरं निरन्तरं वौचित्येन भूयो भूयः-पुनः पुनः प्रत्याजायन्ते प्रत्युत्पद्यन्त | दशममध्ययनं इत्येवमप्येका लोकस्थितिरिति, अपिशब्द उत्तरवाक्यापेक्षया, अपिः क्वचिन्न दृश्यते, अथ द्वितीया- जन्न मित्यादि, सदा- दशस्थानम्, सूत्रम् 704 प्रवाहतोऽनाद्यपर्यवसितं कालं समियं ति निरन्तरं पापं कर्म- ज्ञानावरणादिकं सर्वमपि मोक्षविबन्धकत्वेन सर्वस्यापि जीवप्रत्यापापत्वादिति क्रियते-बध्यते इत्येवमप्येका अन्येत्यर्थः, सततं कर्मबन्धनमिति द्वितीया 2, मोहणिज्जे त्ति मोहनीयं प्रधानतया / गमनादिका लोकस्थितिः भेदेन निर्दिष्टमिति सततंमोहनीयबन्धनंतृतीया ३,जीवाजीवानामजीवजीवत्वाभावश्चतुर्थी ४,त्रसानांस्थावराणांचाव्यवच्छेदः / पञ्चमी 5, लोकालोकयोरलोकलोकत्वेनाभवनं षष्ठी 6, तयोरेवान्योऽन्याप्रवेशः सप्तमी 7, जाव ताव लोए ताव ताव जीव त्ति यावल्लोकस्तावनीवाः, यावति क्षेत्रे लोकव्यपदेशस्तावति जीवा इत्यर्थः। जाव ताव जीवा ताव ताव लोए त्ति, इह यावज्जीवास्तावत्तावल्लोको, यावति यावति क्षेत्रे जीवास्तावत्क्षेत्रं लोक इति भावार्थः / जाव तावे त्यादिवाक्यरचना तु भाषामात्रमित्यष्टमी, यावज्जीवादीनांगतिपर्यायस्तावल्लोक इति नवमी 9, सर्वेषु लोकान्तेषु अबद्धपासपुट्टत्ति बद्धा- गाढश्लेषाः पार्श्वस्पृष्टा- छुप्तमात्रा ये न तथा तेऽबद्धपार्श्वस्पृष्टा रूक्षद्रव्यान्तरेणेति गम्यते तत्सम्पर्कादजातरूक्षपरिणामाः सन्त इति भावो, लोकान्ते स्वभावात् पुद्गला रूक्षतया क्रियन्ते- रूक्षतया परिणमन्ति, अथवा लोकान्तस्वभावाद्या रूक्षता भवति तया ते पुद्गला अबद्धपार्श्वस्पृष्टाः- परस्परमसम्बद्धाः क्रियन्ते, किं सर्वथा?, नैवम्, अपितु तेनेत्यस्य गम्यमानत्वात्तेन रूपेण क्रियन्ते येन जीवाः सकर्मपुद्गलाः, पुद्गलाश्च- परमाण्वादयो, नो संचायति त्ति न शक्नुवन्ति बहिस्ताल्लोकान्ताद् गमनतायैगन्तुमिति, छान्दसत्त्वेन तुमर्थे युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी, शेषं कण्ठ्यमिति // लोकस्थितेरेव विशिष्टवक्तृनिसृष्टा अपि शब्दपुद्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छब्दभेदानाह // 835 //