________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 777 // 'सुपम्हे महापम्हे पम्हावई संखे नलिणे कुमुए'त्ति दृश्यम्, 'जाव गंधिलावई'त्तिकरणाद् 'महावप्पे वप्पावई वग्गू सुवग्गू गंधिले'त्ति दृश्यम् 'खेमपुरा चेव जाव'त्तिकरणाद् 'अरिट्ठा रिट्ठावई खग्गी मंजूसा ओसहिपुरी'ति दृश्यम्, 'सुसीमा कुण्डला चेव जाव'त्तिकरणाद् 'अपराजिया पहंकरा अंकावई पम्हावई सुभा' इति दृश्यम्, 'आसपुरा जाव'त्तिकरणात् ‘सीहपुरा महापुरा विजयपुरा अवराजिया अवरा असोग'त्ति दृश्यम्, वैजयन्ती जावत्तिकरणाद् 'जयन्ती अवराजिया चक्कपुरा खग्गपुरा अवज्झ'त्ति दृश्यम्, एताश्च क्षेमादिराजधान्यः कच्छादिविजयानां शीतादिनदीसमासन्नखण्डत्रयमध्यमखण्डे भवन्ति नवयोजनविस्तारा द्वादशयोजनायामाः। आसु च तीर्थकरादयो भवन्तीति अट्ठ अरहंत त्ति उत्कृष्टतोऽष्टावर्हन्तो भवन्तीति, प्रत्येकं विजयेषु भावाद्, एवं चक्रवर्त्यादयोऽपि, एवं च चतुर्ध्वपि महानदीकूलेषु द्वात्रिंशत्तीर्थकरा भवन्तीति, चक्रवर्तिनस्तु यद्यपिशीताशीतोदानद्योरेकैकस्मिन् कूले अष्टावष्टावुत्पद्यन्त इत्युच्यते तथापि सर्वविजयापेक्षया नैकदा ते द्वात्रिंशद्भवन्ति, जघन्यतोऽपिवासुदेवचतुष्टयाविरहितत्वान्महाविदेहस्य, यत्र च वासुदेवस्तत्र चक्रवर्ती न भवतीति, तस्मादुत्कृष्टतोऽप्यष्टाविंशतिरेव चक्रवर्त्तिनो भवन्ति, एवं जघन्यतोऽपिचक्रवर्त्तिचतुष्टयसम्भवाद्वासुदेवा अप्यष्टाविंशतिरेव, वासुदेवसहचरत्वादूलदेवा अप्येवमिति / दीहवेयद त्ति दीर्घग्रहणं वर्तुलवैताढ्यव्यवच्छेदार्थम्, गुहाष्टकयोर्यथाक्रमं देवाष्टके इति, गङ्गाकुण्डानि नीलवद्वर्षधरपर्वतदक्षिणनितम्बस्थितानि षष्टियोजनायामविष्कम्भाणि मध्यवर्तिगङ्गादेवीसभवनद्वीपानि त्रिदिक्सतोरणद्वाराणि येभ्यः प्रत्येकं दक्षिणतोरणेन गङ्गा विनिर्गत्य विजयानि विभजन्त्यो भरतगङ्गावच्छीतामनुप्रविशन्तीति, एवं सिन्धुकुण्डान्यपि।अट्ठ उसभकूड त्ति अष्टौ ऋषभकूटपर्वता अष्टास्वपि विजयेषु तद्भावात् ते च वर्षधरपर्वतप्रत्यासन्नाम्लेच्छ उसहपुरी (मु०)। आष्टममध्ययन अष्टस्थानम्, सूत्रम् 635-644 जम्बाधुञ्चत्वादि, तिमिसगृहाचत्वम्, जम्पपूर्व-पश्चिमसीतासीतोदोत्तरदक्षिणविजयतद्राजधान्यः, उत्कृस्पदजिनादयः, दीर्घवेताश्यतिमिस्वादिगुहाप्रभृतयः, मेरुचूलामध्यविष्कम्भः, धातकीवृक्षोचत्वादि, दिग्हस्तिकूटानि, जगत्या उच्चत्वम् महाहिमवद्-रुक्मिरुचकावि-कूटानि, दिकमार्थः, तिर्यग्मित्रोत्पन्नकल्पतदिन्द्रपारियानिकविमानानि / / 777 //