SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 686 // इतरथोत्कुटुको वा निषण्ण उपविष्टो वा रजनीं गमयिष्यामीत्येषाऽपि जिनकल्पिकादेरिति, सप्तमी एषैव पूर्वोक्ता, नवरं सप्तममध्ययन यथाऽऽस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति / अयं च सूत्रत्रयार्थः क्वचित्सूत्रपुस्तक एव दृश्यत इति / सत्तसत्तिक्कय त्ति सप्तस्थानम्, सूत्रम् अनुद्देशकतयैकसरत्वेन एककाः- अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपास्ते च समुदायतः 543-545 सप्तेतिकृत्वा सप्तकका अभिधीयन्ते, तेषामेकोऽपि सप्तैकक इति व्यपदिश्यते, तथैव नामत्वाद्, एवं च ते सप्तेति, तत्र प्रथमः। अण्डजादि योनिसंग्रहस्थानसप्तकको, द्वितीयो नैषेधिकीसप्तैककस्तृतीय उच्चारप्रश्रवणविधिसप्तककश्चतुर्थःशब्दसप्पैककः, पञ्चमो रूपसप्तैककः, तद्गत्यागतयः, षष्ठः परक्रियासप्तैककः, सप्तमोऽन्योऽन्यक्रियासप्तैकक इति / सत्त महज्झयण त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति- गणसंग्रहाप्रथमश्रुतस्कन्धाध्ययनेभ्यः सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि, तानि च- पुण्डरीकं 1 क्रियास्थानं 2 ऽसंग्रह स्थानानि, आहारपरिज्ञा 3 प्रत्याख्यानक्रिया 4 अनाचारश्रुतं 5 आर्द्रककुमारीयं 6 नालन्दीयं 7 चेति / सत्तसत्तमिय त्ति सप्तसप्तमानि पिण्ड-पानदिनानि यस्यां सा सप्तसप्तमिका, सा हि सप्तभिर्दिनसप्तकैर्यथोत्तरं वर्द्धमानदत्तिभिर्भवति, तत्र प्रथमे सप्तके प्रतिदिनमेका भक्तस्य पानकस्य चैका दत्तिर्यावत्सप्तमे सप्त दत्तयः, भिक्षुप्रतिमा-साध्वभिग्रहविशेषः, साचैकोनपञ्चाशता रात्रिन्दिवैरहोरात्रैर्भवति, यतः सप्त सप्तकान्येकोनपञ्चाशदेव तथा एकेन च षण्णवत्यधिकेन भिक्षाशतेन, यतःप्रथमे सप्तके सप्तैव द्वितीयादिषु / तद्विगुणाद्या: यावत्सप्तमे एकोनपञ्चाशदिति, सर्वाः सङ्कलिताः शतं षण्णवत्यधिकं भवति, भक्तभिक्षाश्चैताः पानकभिक्षा भिक्षामानंच अप्येतावत्यो न चेह गणिता इति, एतत्स्वरूपमेवं- पडिमासु सत्तगा सत्त, पढमे तत्थ सत्तए। एक्केक्कं गिण्हए भिक्खं, बिइए दोन्नि 8 // 686 // 0 सप्तसप्तभि० (मु०)10 प्रतिमाः सप्तसप्तिकाः प्रथमे तत्र सप्तके। एकैकां भिक्षां गृह्णाति द्वितीये द्वे, षणाऽवग्रहप्रतिमासप्तसप्तकमहाध्ययनसप्तसप्तमिका
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy