SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 67 // प्रथममध्ययनमेकस्थानम्, सूत्रम् 52-56 जम्बूद्वीपपरिधिः , सामान्यमेवास्ति, न विशेषो, निःसामान्यत्वाद्, इह यन्नि:सामान्यं तन्नास्ति यथा खरविषाणम्, यच्चास्ति न तन्निःसामान्य यथा घट इति, तथा सामान्यादन्येऽनन्ये वा विशेषाः प्रतिपद्येरन्? यद्यन्ये ननूक्तमसन्तस्ते निःसामान्यत्वात् खपुष्पवत्, अथानन्ये तदा सामान्यमात्रमेव, तत्र वा विशेषोपचारः, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह च- एक निच्चं निरवयवमक्कियं सव्वगं च सामन्नं / निस्सामन्नत्ताओ नत्थि विसेसो खपुप्फ व॥१॥ तथा- सामन्नओ विसेसो अन्नोऽनन्नो व होज्ज? जइ अन्नो / सो नत्थि खपुप्फ पिवऽणन्नो सामन्नमेव तयं // 2 // (विशेषाव० ३२-३४)ति, तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमेव / विशेषनयमतेन तु तेषामनेकत्वमेव, स हि ब्रूते- विशेषेभ्यः सामान्यं भिन्नमभिन्नं वा स्यात्?, न भिन्नमत्यन्तानुपलम्भात् खपुष्पवत्, तथा-नसामान्यं विशेषेभ्यो भिन्नमस्ति, दाहपाकस्नानपानावगाहवाहदोहादिसर्वसंव्यवहाराभावात् खरविषाणवत्, अथाभिन्नं तदा विशेषमात्रं वस्तु न नाम सामान्यमस्ति, तेषु वा सामान्यमात्रोपचार इति, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह चन विसेसत्थंतरभूयमत्थि सामन्नमाह ववहारो। उवलंभव्ववहाराभावाओ खरविसाणं व // 1 // (विशेषाव० 35) इति, तदेवमात्मादीनामनेकत्वमेवेति / ननु पक्षद्वयेऽपि युक्तिसम्भवात् किं तत्त्वं प्रतिपत्तव्यमिति?, उच्यते, स्यादेकत्वंस्यादनेकत्वमिति, तथाहि-समविषमरूपत्वाद्वस्तुनः समरूपापेक्षया एकत्वं विषमरूपापेक्षया त्वनेकत्वमिति, उक्तञ्च-वस्तुन एव समानः परिणामो यः स एव सामान्यम्। विपरीतास्तु विशेषा वस्त्वेकमनेकरूपं तद् // 1 // इति // Oएकं नित्यं निरवयवमक्रियं सर्वगं च सामान्यम्। निस्सामान्यत्वात् नास्ति विशेषः खपुष्पवत्॥१॥ सामान्याद्विशेषः अन्योऽनन्यो वा भवेत्? यद्यन्यः। स नास्ति खपुष्पमिव अनन्यः सामान्यमेव तकत्॥२॥ ॐन विशेषादर्थान्तरभूतमस्ति सामान्यमाह व्यवहारः। उपलम्भव्यवहाराभावात् खरविषाणमिव // 1 // 0 समविषयरूप० गमनम्, अनुत्तरशरीरोच्चत्वम्, आर्द्राचित्रास्वातितारकाः, एकप्रदेशा वगाहादि, (ज्ञानक्रियानयौ, सामान्यविशेषविचारः) // 67 // (मु०)।
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy