SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सम्पादकीयम् श्रीअभय० वृत्तियुतम् भाग-१ // 7 // सम्पादनात्पूर्वम्...... ॥णमोऽत्थु णं समणस्स भगवओ महावीरस्स / / अथ श्री श्रीपालनगर जैन श्वेताम्बर मूर्तिपूजक देरासर ट्रस्ट (मुम्बई) इत्यनेनेदं स्थानाङ्गसूत्रंसटीकं प्रकाश्यते। अनन्तोपकारिश्रीमतां तीर्थकृतां परमतारकंशासनमर्थतस्तत्प्रणीतेन सूत्रतश्च श्रीमद्गणधरैः प्रणीतेनागमेनाविच्छिन्नं प्रवर्तत इति सुविदितं समेषाम्। अतिविषमे कलिकालेऽस्म्मिन्नपारसंसारसागरात्पारमुत्तितीषूणांमुमुक्षूणां नास्ति कश्चिदुपाय एतदागमज्ञानमन्तरेण / बहुश उपकृतं प्राक्तनमहर्षिभिरेतदागमसूत्राणि कण्ठस्थानि कृत्वाऽध्याप्य चस्वान्तेवासिभ्य इत्यत्र नास्ति कश्चित् सन्देहः / परन्तु विषमकालप्रभावेण बुद्ध्यादिहासेणा शक्यस्तथोपकार इति पुस्तकारूढानि तानि कृत्वोपकृतं तथैव तैरस्मासु। परन्तु कालवैषम्यात् तत्तल्लिप्यादीनांवाचनपरिपाट्यादिविच्छेदे पूज्यसागरजीमहाराजादिभिर्विद्वद्वरैर्हस्तलिखितप्रतीनां लेखकादिदोषान् संशोध्यागमसूत्राणि मुद्रापयित्वानुगृहीता वयमिति नैव विस्मरणीयम् / तैश्च मुद्रापिताः प्रती: समाश्रित्यैवेदमागमसूत्रं प्रकाश्यत इति नास्य सम्पादने मया कश्चिविशेषो विहितः। अस्मिन् सूत्रे को विषयः प्रतिपादितः के चास्य प्रकाशने प्रेरका मार्गदर्शका इत्यादिकमत्रैव विशदरीत्या निर्दिष्टमिति तन्निरूपणमनावश्यकम्। अन्त एतदागमस्याध्ययनादिद्वारा मुमुक्षवः स्वात्मानं परमात्मानं विधाय स्वस्थानस्था भवन्त्वित्यभिलाषया विरमति विजयचन्द्रगुप्तसूरिः। जैन उपाश्रय, ठाणा वि.सं. 2068, फाल्गुन शुक्ल द्वितीया- गुरुवासरः // 7 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy