________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 44 // मेकस्थानम्, सूत्रम् द्विस्पर्शः कार्यलिङ्गश्च // 1 // इति, स च स्वरूपतः एक एवान्यथा परमाणुरेवासौ न स्यादिति / अथवा समयादीनां प्रत्येकमनन्तानामपितुल्यरूपापेक्षयैकत्वमिति // यथा परमाणोस्तथाविधैकत्वपरिणामविशेषादेकत्वं भवति तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन् सकलबादरस्कन्धप्रधानभूतमीषत्प्राग्भाराभिधानं पृथिवीस्कन्धं प्ररूपयन्नाह- एगा सिद्धी 44-46 सिध्यन्ति- कृतार्था भवन्ति यस्यां सा सिद्धिः, सा च यद्यपि लोकाग्रम्, यत आह- इहं बोंदीं चइत्ताणं, तत्थ गंतूण सिज्झइ समयः, प्रदेशपरमाणू, (आव०नि० ९५८)त्ति, तथापि तत्प्रत्यासत्त्येषत्प्राग्भाराऽपि तथा व्यपदिश्यते, आह च-बारसहिँ जोयणेहिं सिद्धी सव्वट्ठसिद्धाउ सिद्धिसिद्धत्ति, यदि च लोकाग्रमेव सिद्धिः स्यात् तदा कथमेतदनन्तरमुक्तं- निम्मलदगरयवण्णा तुसारगोक्खीरहारसरिवन्ने (आव०नि० परिनिर्वाण९६१)त्यादि तत्स्वरूपवर्णनं घटते?, लोकाग्रस्यामूर्तत्वादिति, तस्मादीषत्प्राग्भारा सिद्धिरिहोच्यते, साचैका, द्रव्यार्थतया परिनिर्वृताः पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्कन्धस्यैकपरिणामत्वात्, पर्यायार्थतया त्वनन्ता, अथवा कृतकृत्यत्वंलोकाग्रमणिमादिका वा सिद्धिः, एकत्वं च सामान्यत इति / सिद्धरनन्तरं सिद्धिमन्तमाह- एगे सिद्धे सिद्ध्यति स्म- कृतकृत्योऽभवत् सेधति वा स्म- अगच्छद् अपुनरावृत्त्या लोकाग्रमिति सिद्धः, सितं वा-बद्धं कर्म ध्मातं- दग्धं यस्य स निरुक्तात् सिद्धः- कर्माप्रपञ्चनिर्मुक्तः, सच एको द्रव्यार्थतया, पर्यायार्थतस्त्वनन्तपर्याय इति, अथवा सिद्धानामनन्तत्वेऽपि तत्सामान्यादेकत्वम्, अथवा कर्मशिल्पविद्यामन्त्रयोगागमार्थयात्राबुद्धिर्तपःकर्मक्षयभेदेनानेकत्वेऽप्यस्यैकत्वं सिद्धशब्दाभिधेयत्वसाम्यादिति।कर्मक्षयसिद्धस्य च परिनिर्वाणं धर्मो भवतीति तदाह- एगे परिनिव्वाणे परि-समन्तानिर्वातिनिर्वाणं- सकलकर्मकृतविकारनिरा-1 करणतः स्वस्थीभवनं परिनिर्वाणं तदेकम्, एकदा तस्य सम्भवे पुनरभावादिति / परिनिर्वाणधर्मयोगात्स एव कर्मक्षयसिद्धः 0 इह तनुं त्यक्त्वा तत्र गत्वा सिध्यन्ति। (r) द्वादशभिर्योजनैः सिद्धिः सर्वार्थसिद्धात्। 0 निर्मलदकरजोवर्णा तुषारगोक्षीरहारसदृशवर्णा।