________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 498 // उपसर्गा पसर्गभेदाः तद्रूपमावृत्य क्रीडितं अनागच्छत्सुच क्षुल्लकेषुव्याकुले गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तम्, ततो वृषभैरुण्डेरकादि चतुर्थमध्ययनं याचित्वा तस्यै दत्तम्, तया तु ते दर्शिता इति, प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत्, विमर्षाद् यथा क्वचिद्देव- चतु:स्थानम्, चतुर्थोद्देशकः कुलिकायां वर्षासूषित्वासाधुषुगतेषु तदीय एवान्यः पश्चादागतस्तत्रोषितस्तंच देवता किंस्वरूपोऽयमिति विमर्षादुपसर्गितव-8 सूत्रम् 361 तीति, पृथग्- भिन्ना विविधा मात्रा- हासादिवस्तुरूपा येषु ते पृथग्विमात्रा अथवा पृथग्- विविधा मात्रा विमात्रा तया / दिव्यमानुषइत्येतल्लुप्ततृतीयैकवचनं पदंदृश्यम्, तथाहि- हासेन कृत्वा प्रद्वेषेण करोतीत्येवं संयोगाः, यथा सङ्गमक एव विमर्षेण कृत्वा तैरश्चाऽऽत्मप्रद्वेषेण कृतवानिति, तथा मानुष्या हासाद् यथा गणिकादुहिता क्षुल्लकमुपसर्गितवती सा च तेन दण्डेन ताडिता विवादे च संवेदनीयोराज्ञः श्रीगृहदृष्टान्तो निवेदितस्तेनेति, प्रद्वेषाद्यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितो, विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थं लिङ्गिनोऽन्तःपुरे धर्ममाख्यापिताः क्षोभिताश्च साधवस्तु क्षोभितुं न शकिता इति, कुशीलंअब्रह्म तस्य प्रतिषेवणं कुशीलप्रतिषेवणं तद्भाव: कुशीलप्रतिषेवणता उपसर्गः कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणका अथवा कुशीलप्रतिषेवणयेति व्याख्येयम्, यथा सन्ध्यायांवसत्यर्थं प्रोषितस्यालोर्गृहे प्रविष्टः साधुश्चतसृभिरीालुजायाभिर्दत्तावासः प्रत्येकं चतुरोऽपि यामानुपसर्गितो न च क्षुभितस्तथा तैरश्चा भयात् श्वादयो दशेयुः प्रद्वेषाच्चण्डकौशिको भगवन्तं दष्टवान् आहारहेतोः सिंहादयोऽपत्यलयनसंरक्षणाय काक्यादय उपसर्गयेयुरिति, तथा आत्मसंचेतनीया घट्टनता घट्टनया वा यथाऽक्षिणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेवाक्षिणि गले वा मांसाङ्करादि // 498 // जातं घट्टयतीति प्रपतनता प्रपतनया वा यथा अप्रयत्नेन सञ्चरतः प्रपतनाद् दुःखमुत्पद्यते स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्तः पादादिः स्तब्धो जातः श्लेषणता श्वेषणया वा यथा पादमाकुञ्य स्थितो वातेन तथैव पादो