________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययन चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 346 मेघाद्युपमया पुरुष // 479 // चतुर्भङ्गयः 4,8, चत्तारि मेहा पं० तं०-खेत्तवासी णाममेगे णो अखित्तवासी 4, 9, एवामेव चत्तारि पुरिसजाया पं० तं०-खेत्तवासीणाममेगे णो अखेत्तवासी 4,10, चत्तारि मेहा पं० तं०- जणतित्ता णाममेगे णो णिम्मवइत्ता णिम्मवइत्ता णाममेगे णो जणतित्ता 4, 11, एवामेव चत्तारि अम्मापियरोपं० तं०- जणइत्ता णाममेगे णो णिम्मवइत्ता 4, 12, चत्तारि मेहा पं० तं०- देसवासी णाममेगे णो सव्ववासी 4,13, एवामेव चत्तारिरायाणोपं० त०- देसाधिवती णाममेगे णो सव्वाधिवती ४,१४॥सूत्रम् 346 // सुगमानिच, नवरं मेघाः- पयोदाः गर्जिता-गर्जिकृत् नो वर्षिता-न प्रवर्षणकारीति 1, एवं कश्चित्पुरुषो गर्जितेव गर्जिता दानज्ञानव्याख्यानानुष्ठानशत्रुनिग्रहादिविषये उच्चैः प्रतिज्ञावान् नो-नैव वर्षितेव वर्षिता- वर्षकोऽभ्युपगतसम्पादक इत्यर्थः, अन्यस्तु कार्यकर्ता न चोच्चैः प्रतिज्ञावानिति, एवमितरावपि नेयाविति 2 / विजुयाइत्त त्ति विद्युत्कर्ता 3, एवं पुरुषोऽपि कश्चिदुच्चैः प्रतिज्ञाता न च विद्युत्कारतुल्यस्य दानादिप्रतिज्ञातार्थारम्भाडम्बरस्य कर्ताऽन्यस्तु आरम्भाडम्बरस्य कर्ता न प्रतिज्ञातेति, एवमन्यावपीति 4, वर्षिता कश्चिद् दानादिभिर्न तु तदारम्भाडम्बरकर्ता, अन्यस्तु विपरीतोऽन्य उभयथाऽन्योन किञ्चिदिति 5-6, कालवर्षी-अवसरवर्षीति एवमन्येऽपि 7, पुरुषस्तु कालवर्षीव कालवर्षी- अवसरे दानव्याख्यानादि-8 परोपकारार्थप्रवृत्तिक एकोऽन्यस्त्वन्यथेति, एवं शेषौ 8, क्षेत्रं धान्याद्युत्पत्तिस्थानं 9, पुरुषस्तु क्षेत्रवर्षीव क्षेत्रवर्षी- पात्रे दानश्रुतादीनां निक्षेपकोऽन्यो विपरीतोऽन्यस्तथाविधविवेकविकलतया महौदार्यात् प्रवचनप्रभावनादिकारणतो वा उभयस्वरूपोऽन्यस्तु दानादावप्रवृत्तिक इति 10, जनयिता मेघो यो वृष्ट्या धान्यमुद्गमयति, निर्मापयिता तु यो वृष्ट्यैव सफलतां नयतीति 11, एवं मातापितरावपीति प्रसिद्धम्, एवमाचार्योऽपि शिष्यं प्रत्युपनेतव्य इति 12, विवक्षितभरतादिक्षेत्रस्य प्रावृडादिकालस्य वा देशे आत्मनो वा देशेन वर्षतीति देशवर्षी 1 यस्तु तयोः सर्वयोः सर्वात्मना वा वर्षति स सर्ववर्षी,