________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 439 // चतुर्थमध्ययन चतु:स्थानम्, तृतीयोद्देशक: सूत्रम् 327 आत्मभरिपरंभर्यादिचतुर्भङ्गयः कारणत्वात् कर्मक्षयकारणानि मोक्षसाधकत्वात् तपःकर्माणि-तपः- क्रियाः प्रतिपद्यन्ते- आश्रयन्ति, किमंग पुण त्ति किं प्रश्ने अङ्गत्यात्मामन्त्रणेऽलङ्कारेवा पुन रिति पूर्वोक्तार्थवैलक्षण्यदर्शने शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी उपक्रम्यतेऽनेनायुरित्युपक्रमो-ज्वरातीसारादिस्तत्र भवा या सौपक्रमिकी सा चासौ सा चेति आभ्युपगमिकौपक्रमिकी तां वेदनां- दुःखं सहामि तदुत्पत्तावभिमुखतया, अस्ति च सहिरवैमुख्यार्थे यथाऽसौ भटस्तं भटं सहते, तस्मान्न भज्यत इति / भावः, क्षमे आत्मनि परे वाऽविकोपतया तितिक्षामि अदैन्यतया अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थान करोमीत्यर्थः, एकार्था वैते शब्दाः, किं मन्ने त्ति मन्ये निपातो वितर्कार्थः क्रियते- भवतीत्यर्थः, एगंतसो त्ति एकान्तेन सर्वथेत्यर्थ इति // एते च दुःखसुखशय्यावन्तो निर्गुणसगुणा अतस्तद्विशेषाणामेव वाचनीयावाचनीयत्वदर्शनाय सूत्रद्वयम्, कण्ठ्यम्, नवरं वीयइत्ति विकृति:-क्षीरादिका अव्यवशमितप्राभृत इति प्राभृतं- अधिकरणकारी कोप इति / अनन्तरं वाचनीयावाचनीयाः पुरुषा उक्ता इति पुरुषाधिकारात् तद्विशेषप्रतिपादनपरं चतुर्भङ्गिकाप्रतिबद्धं सूत्रप्रबन्धमाह चत्तारिपुरिसजाया पं० तं०- आतंभरे नाममेगे नो परंभरे परंभरे नाममेगेनो आतंभरे एगे आतंभरेवि परंभरेवि एगेनो आयंभरे नो परंभरे, चत्तारि पुरिसजाया पं० तं०- दुग्गए नाममेगे दुग्गए दुग्गए नाममेगे सुग्गते सुग्गते नाममेगे दुग्गए सुग्गए नाममेगे सुग्गए, चत्तारि पुरिसजाया पं० तं०- दुग्गते नाममेगे दुव्वए दुग्गए नाममेगे सुव्वए सुग्गए नाममेगे दुव्वते सुग्गए नाममेगे सुव्वए 4, चत्तारि पुरिसजाया पं० तं०- दुग्गते नाममेगे दुप्पडिताणंदे दुग्गते नाममेगे सुप्पडिताणंदे 4, चत्तारि पुरिसजाया पं० तं०- दुग्गते नाममेगे दुग्गतिगामी दुग्गए नाममेगे सुग्गतिगामी 4, चत्तारि पुरिसजाया पं० तं०- दुग्गते नाममेगे दुग्गतिं गते दुग्गते नाममेगे सुगतिं गते 4, चत्तारि पुरिसजाता पं० तं०- तमे नाममेगे तमे तमे नाममेगे जोती जोती णाममेगे तमे जोतीणाममेगे जोती 4, चत्तारि पुरिसजाता पं० // 432 //