________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 429 // जहाति- त्यजति कारणवशात् न धर्म- चारित्रलक्षणं बोटिकमध्यस्थितमुनिवद्, अन्यस्तु धर्म न रूपं निह्नववद्, उभयमपि उत्प्रव्रजितवद्, नोभयं सुसाधुवद्, धर्मं त्यजत्येको जिनाज्ञारूपंन गणसंस्थितिं-स्वगच्छकृतां मर्यादाम्, इह कैश्चिदाचार्यस्तीर्थकरानुपदेशेन संस्थितिः कृता यथा-नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवं च योऽन्यगणसत्काय न तद्ददाविति स धर्म त्यजति न गणस्थितिम्, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशोहयेवं-सर्वेभ्यो योग्येभ्यः श्रुतंदातव्यमिति प्रथमो, यस्तु ददाति स द्वितीयो, यस्त्वयोग्येभ्यस्तद्ददाति स तृतीयो, यस्तु श्रुताव्यवच्छेदार्थं तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थ इति, उक्तंच-सयमेव दिसाबंधं काऊण पडिच्छगस्स जो देइ / उभयमवलंबमाणं कामं तु तयंपि पूएमो॥१॥ (व्यव०भा० 4584) त्ति, प्रियो धर्मो यस्य तत्र प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधर्मानच दृढो धर्मो यस्य, आपद्यपि तत्परिणामाविचलनाद्, अक्षोभत्वादित्यर्थः स दृढधर्मेति, उक्तंच-दसविहवेयावच्चे अन्नतरे खिप्पमुज्जमं कुणति / अच्चंतमणेव्वाणिं धिइविरियकिसो पढमभंगो॥१॥(व्यव०भा० 4587) अन्यस्तु दृढधर्मा अङ्गीकृतापरित्यागाद् न तु प्रियधर्मा कष्टेन धर्मप्रतिपत्तेरितरौ सुज्ञानौ, उक्तं च-दुक्खेण उगाहिज्जइ बीओ गहियं तु नेइ जा तीरं। उभयं तो कल्लाणो तइओ चरिमो उ पडिकुट्ठो॥१॥ (व्यव०भा० 4588) इति, आचार्यसूत्रचतुर्थभङ्गे यो न प्रव्राजनया न चोत्थापनयाचार्यः स क इत्याह-धर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह च-धम्मो जेणुवइट्ठो सो धम्मगुरू स्वयमेव दिग्बन्धं कृत्वा प्रतीच्छकाय यो ददाति (श्रुतं)। तमप्युभयमवलम्बयन्तं प्रकामं तु पूजयामः॥ 1 // 0 दशविधवैयावृत्त्येष्वन्यतरस्मिन् क्षिप्रमुद्यम करोति / अत्यन्तमविश्रान्तं धृतिवीर्यकृशः प्रथमभङ्गः॥१॥ 0 दुःखेनोद्गाह्यते द्वितीयो गृहीतं तु नयति पारम् / तृतीय उभयमतः कल्याणश्चरमस्तु प्रतिकुष्टः॥१॥ येन धर्म उपदिष्टः स धर्मगुरु-- चतुर्थमध्ययन चतुःस्थानम्, तृतीयाद्देशक: सूत्रम् 320 यान-युग्यसारथि-हयगज-युग्यचर्या-पुष्पफलोपमैः पुरुषचतुर्भयः प्रव्राजनो द्देशनाद्याचार्य शिष्याः, आराधनाऽनाराधनयो रत्नाधिकादि निर्ग्रन्थ निर्ग्रन्थीश्रावकश्राविकाच // 429 //