________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 417 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 311-312 पर्वतादिराजीकर्दमाधु दकसमौ करेति, चत्तारि पुरिसजाया पं० तं०- अप्पणो णाममेगे पत्तितं करेति णो परस्स परस्स नाममेगे पत्तियं करेति णो अप्पणो (4) ह्व, चत्तारि पुरिसजाया पं० तं०- पत्तियं पवेसामीतेगे पत्तितं पवेसेइ पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति 4 / चत्तारि पुरिसजाता पं० तं०- अप्पणो नाममेगे पत्तितं पवेसेइ णो परस्स परस्स 4 ह॥सूत्रम् 312 // चत्तारी त्यादि, अस्य चायमभिसम्बन्धः- पूर्वं चारित्रमुक्तं, तत्प्रतिबन्धकश्च क्रोधादिभाव इति क्रोधस्वरूपप्ररूपणायेदमुच्यते, तदेवंसम्बन्धस्यास्य दृष्टान्तभूतादिसूत्रस्य व्याख्या-राजी रेखा, शेषं क्रोधव्याख्यानं मायादिवद्, मायादिप्रकरणाचान्यत्र क्रोधविचारो विचित्रत्वात् सूत्रगतेरिति, द्वितीयं सुगममेव // अयं च क्रोधो भावविशेष एवेति भावप्ररूपणाय दृष्टान्तादिसूत्रद्वयमाह- चत्तारी त्यादि प्रसिद्धम्, किन्तु कईमो यत्र प्रविष्टः पादादिर्नाक्रष्टुं शक्यते कष्टेन वा शक्यते, खञ्जनं दीपादिखञ्जनतुल्यः पादादिलेपकारी कईमविशेष एव, वालुका प्रतीता सातु लग्नापि जलशोषे पादादेरल्पेनैव प्रयत्नेनापतीत्यल्पलेपकारिणी,शैलास्तु पाषाणाः श्लक्ष्णरूपास्ते पादादेःस्पर्शनेनैव किञ्चिदुःखमुत्पादयन्ति, नतु तथाविधं लेपमुपजनयन्ति, कईमादिप्रधानान्युदकानि कईमोदकादीन्युच्यन्ते, भावो-जीवस्य रागादिपरिणामस्तस्य कर्दमोदकादिसाम्यं तत्स्वरूपानुसारेण कर्मलेपमङ्गीकृत्य मन्तव्यमिति / अनन्तरं भाव उक्तोऽधुना तद्वतः पुरुषान् सदृष्टान्तान् चत्तारि पक्खी त्यादिना अत्थमियत्थमिये त्येतदन्तेन ग्रन्थेनाह-व्यक्तश्चायम्, नवरं रुतं रूपंच सर्वेषामेव पक्षिणामस्त्यतस्ते विशिष्टे एवेह ग्राह्ये, ततो रुतं- मनोज्ञशब्दस्तेन सम्पन्न एकः पक्षी न च रूपेण- मनोज्ञेनैव कोकिलवद्, रूपसम्पन्नो न रुतसम्पन्नः, प्राकृतशुकवद्, 5 उभयसम्पन्नोमयूरवद्, अनुभयस्वभावः काकवदिति, पुरुषोऽत्र यथायोगंमनोज्ञशब्दः प्रशस्तरूपश्च प्रियवादित्वसद्वेषत्वाभ्यां साधुर्वा सिद्धसिद्धान्तप्रसिद्धशुद्धधर्मदेशनादिस्वाध्यायप्रबन्धवान्लोचविरलवालोत्तमाङ्गतातपस्तनुतनुत्वमलमलिनदेहताऽ क्रोधभावी, रुत-रूपाभ्यां प्रीत्यप्रीतिभ्यामात्मपरयोः प्रीतिकरणप्रवेशचतुर्भङ्यः // 417 //