________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 389 // चतुर्थमध्ययन चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 293 वंशीमूलाधुपमाभिर्मायामानलोभाः समाणे खंजणरागरत्तवत्थसमाणे हलिद्दरागरत्तवत्थसमाणे, किमिरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ नेरइएसु उववज्जइ, तहेव जाव हलिद्दरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ देवेसु उववजति ॥सूत्रम् 293 // चत्तारी त्यादि प्रकटम्, किन्तु केतनं- सामान्येन वक्रं वस्तु पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशादिदलकम्, तच्च वक्रं भवति, केवलमिह सामान्येन वक्रं वस्तु केतनं गृह्यते, तत्र वंशीमूलं च तत्केतनं च वंशीमूलकेतनमेवं सर्वत्र, नवरं मेण्ढविषाणं- मेषशृङ्ग, गोमूत्रिका प्रतीता, अवलेहणिय त्ति अवलिख्यमानस्य वंशशलाकादेर्या प्रतन्वी त्वक्साऽवलेखनिकेति, वंशीमूलकेतनकादिसमता तुमायायास्तद्वतामनार्जवभेदात्, तथाहि-यथा वंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायाऽपीत्येवमल्पाल्पतराल्पतमानार्जवत्वेनान्याऽपि भावनीयेति, इयंचानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनरूपाक्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुबन्धिन्या उदयेऽपि देवत्वादि न विरुध्यते, एवं मानादयोऽपि, वाचनान्तरे तु पूर्वं क्रोधमानसूत्राणि ततो मायासूत्राणि, तत्र क्रोधसूत्राणि 'चत्तारि राइओ पन्नत्ताओ, तं०- पव्वयराई पुढविराई रेणुराई जलराई, एवामेव चउव्विहे कोहे' इत्यादि मायासूत्राणीवाधीतानीति, फलसूत्रे अनुप्रविष्टस्तदुदयवर्तीति, शिलाविकारः शैलः स चासौ स्तम्भश्च- स्थाणुः शैलस्तम्भः, एवमन्येऽपि, नवरं, अस्थि दारु च प्रतीतम्, तिनिशो-वृक्षविशेषस्तस्य लता- कम्बा तिनिशलता, सा चात्यन्तमृद्वीति, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावविशेषाद् ज्ञेयेति, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण दृश्यस्तत्फलसूत्रं व्यक्तम्, कृमिरागे वृद्धसम्प्रदायोऽयं- मनुष्यादीनां रुधिरं गृहीत्वा केनापियोगेन युक्तंभाजने स्थाप्यते, ततस्तत्र कृमय उत्पद्यन्ते,तेच वाताभिलाषिणश्छिद्रनिर्गता आसन्ना भ्रमन्तो निर्हारलाला मुञ्चन्ति ताः कृमिसूत्रं भण्यते, तच्च स्वपरिणामरागरञ्जितमेव भवति, अन्ये भणन्ति- ये रुधिरे कृमय उत्पद्यन्ते तान् तत्रैव // 389 //