________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 352 // देवभेदाः, पं० तं०- काले महाकाले वेलंबे पभंजणे।सूत्रम् 256 // चतुर्थमध्ययन चउव्विहा देवा पं० 20- भवणवासी वाणमंतरा जोइसिया विमाणवासी॥सूत्रम् 257 // चतुःस्थानम्, प्रथमोद्देशकः चउविहे पमाणे पं० २०-दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाणे // सूत्रम् 258 // सूत्रम् पुरुषाधिकारादेव देवविशेषपुरुषनिरूपणपराणि लोकपालादिसूत्राणि कण्ठ्यानि, नवरमिन्द्रः परमैश्वर्ययोगात् प्रभुमहान् 256-258 असुरेन्द्रादिवागजेन्द्रवत्, राजा तुराजनाद्दीपनात् शोभावत्त्वादित्यर्थ आराध्यत्वाद्वा, एकार्थी वैताविति, दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालाः, लोकपालः स औदीच्येषु चतुर्थश्चतुर्थस्त्वितर इति, एवं एक्कंतरिय त्ति, यन्नामानः शक्रस्य तन्नामान एव सनत्कुमार प्रमाणभेदाः ब्रह्मलोकशुक्रप्राणतेन्द्राणां तथा यन्नामान ईशानस्य तन्नामान एव माहेन्द्रलान्तकसहस्राराच्युतेन्द्राणामिति / कालादयः पातालकलशस्वामिन इति / चतुर्विधा देवा इत्युक्तम्, एतच्च सङ्ख्याप्रमाणमिति प्रमाणप्ररूपणसूत्रम्, तत्र प्रमिति: प्रमीयते वा-परिच्छिद्यते येनार्थस्तत् प्रमाणम्, तत्र द्रव्यमेव प्रमाणं दण्डादिद्रव्येण वा धनुरादिना शरीरादेव्यैर्वा दण्डहस्ताङ्गलादिभिर्द्रव्यस्य वा जीवादेर्द्रव्याणां वा जीवधर्माधर्मादीनां द्रव्ये वा परमाण्वादौ पर्यायाणां द्रव्येषु वा तेष्वेव तेषामेव प्रमाणं द्रव्यप्रमाणम्, एवं यथायोगंसर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाणं द्विधा-प्रदेशनिष्पन्नं विभागनिष्पन्नंच, तत्र आद्यं परमाण्वाधनन्तप्रदेशिकान्तम्, विभागनिष्पन्नं पञ्चधा-मानादि, तत्र मानं धान्यमानं सेतिकादिरसमानं कर्षादि 1 उन्मानं तुलाकर्षादि 2 अवमानं हस्तादि 3 गणितमेकादि 4 प्रतिमानं गुञ्जावल्लादीति 5 क्षेत्रं- आकाशं तस्य प्रमाणं द्विधा- प्रदेशनिष्पन्नादि, // 32 // तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्ख्यप्रदेशावगाढान्तम्, विभागनिष्पन्नमङ्गल्यादि, काल:- समयस्तन्मानं द्विधा प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्खयेयसमयस्थित्यन्तं विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्रकालयोर्द्रव्यत्वे सत्यपि