SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 347 // ज्ञानावरणीयादितया निषेकः, स चैवं- प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति, ततो द्वितीयायां विशेषहीनम्, एवं चतुर्थमध्ययन यावदुत्कृष्टायां विशेषहीनं निषिञ्चति,उक्तंच-मोत्तूण सगमबाहं पढमाइ ठिईएँ बहुतरं दव्वं / सेसे विसेसहीणंजावुक्कोसंति सव्वेसिं॥१॥ प्रथमोद्देशकः इति, बन्धनं-तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपिकषायपरिणतिविशेषानिकाचनमिति, उदीरणं- अनुदयप्राप्तस्य सूत्रम् करणेनाकृष्योदये प्रक्षेपणमिति, वेदनं-स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयभावमुपनीतस्यानुभवनमिति, 250-251 कर्मप्रकृतिनिर्जरा-कर्मणोऽकर्मत्वभवनमिति, इह च देशनिजरैव ग्राह्या, सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात्, क्रोधादीनांचल तदकारणत्वात्, क्रोधादिक्षयस्यैव तत्कारणत्वादिति, इह प्रज्ञापनाधीता सङ्ग्रहगाथा-आयपइट्ठिय 1 खेत्तं पडुच्च 2 णताणुबंधि कारणानि, समाधि-भद्रा३ आभोगे 4 / चिणउवचिणबंध उदीर वेय तह निज्जरा चेव॥१॥ (प्रज्ञा० ४१८)इति / अनन्तरं निर्जरोक्ता, सा च विशिष्टा क्षुद्र-मोयादिप्रतिमाद्यनुष्ठानाद्भवतीति प्रतिमासूत्रत्रयम्, तद्विस्थानकाधीतमपीहाधीयते, चतुःस्थानकानुरोधादिति, व्याख्याऽप्यस्य प्रतिमा: 12 पूर्ववदनुसतव्या, किन्तु स्मरणाय किञ्चिदुच्यते-समाधिः- श्रुतंचारित्रं च तद्विषया प्रतिमा- प्रतिज्ञा अभिग्रहः समाधिप्रतिमा द्रव्यसमाधिर्वा प्रसिद्धस्तद्विषया प्रतिमा-अभिग्रहः समाधिप्रतिमा एवमन्या अपि, नवरमुपधानं-तपो विवेकः- अशुद्धातिरिक्तभक्तपानवस्त्रशरीरतन्मलादित्यागः विउस्सग्गेत्ति कायोत्सर्गः। तथा पूर्वादिदिक्चतुष्टयाभिमुखस्य प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्गो भद्रेति, अहोरात्रद्वयेन चास्याः समाप्तिरिति, सुभद्राऽप्येवंभूतैव सम्भाव्यते, न च दृष्टेति न लिखितेति, एवमेव चाहोरात्रप्रमाणः कायोत्सर्गो महाभद्रा, चतुर्भिश्चाहोरात्रैरियंसमाप्यते, यस्तु दिग्दशकाभिमुखस्याहोरात्रप्रमाणः कायोत्सर्गः ®स्वकमबाधाकालं मुक्त्वा (निषेके) प्रथमस्थितौ बहुतरं द्रव्यम्। शेषायां विशेषहीनं यावदुत्कृष्टायां सर्वासाम् ॥१॥आत्मप्रतिष्ठितः क्षेत्रं प्रतीत्य अनन्तानुबन्धी आभोगः। चिनाति उपचिनाति बध्नाति उदीरयति वेदयति निर्जरयति चैव॥१॥ // 347 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy