________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 298 // सामायिका मानुषोत्तरादयो महान्त उक्ता इति महदधिकारादतिमहत आह-तओ महई त्यादि व्यक्तम्, केवलमतिमहान्तश्च ते आलयाश्च- तृतीयमध्ययन आश्रया अतिमहालया महान्तश्च तेऽतिमहालयाश्चेति महातिमहालयाः, अथवा लय इत्येतस्य स्वार्थिकत्वाद् महातिमहान्त छ त्रिस्थानम्, चतुर्थोद्देशकः इत्यर्थः, द्विरुच्चारणं च महच्छब्दस्य मन्दरादीनां सर्वगुरुत्वख्यापनार्थम्, अव्युत्पन्नो वाऽयमतिमहदर्थे वर्त्तत इति, मंदरेसु त्ति सूत्रम् 206 मेरूणांमध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वाच्छेषाणां चतुर्णा सातिरेकपञ्चाशीतियोजनसहस्रप्रमाणत्वादिति, दिनिर्विष्टस्वयम्भूरमणो महान् सुमेरोरारभ्य तस्य शेषसर्वद्वीपसमुद्रेभ्यःसमधिकप्रमाणत्वात्, तेषां तस्य च क्रमेण किश्चिन्यूनाधिक कल्पादिरज्जुपादप्रमाणत्वादिति, ब्रह्मलोकस्तु महान्, तत्प्रदेशे पञ्चरज्जुप्रमाणत्वाद् लोकविस्तरस्य, तत्प्रमाणतया च विवक्षितत्वाद् स्थितिः ब्रह्मलोकस्येति / अनन्तरं ब्रह्मलोककल्प उक्त इति कल्पशब्दसाधात् कल्पस्थितिं त्रिधाऽऽह तिविधा कप्पठिती पं० तं०- सामाइयकप्पठिती छेदोवट्ठावणियकप्पट्टिती निव्विसमाणकप्पट्ठिती 3, अहवा तिविहा कप्पद्विती पं० तं०-णिव्विट्ठकप्पट्ठिती जिणकप्पठिती थेरकप्पठिती ३॥सूत्रम् 206 // तिविहेत्यादि सूत्रद्वयं व्यक्तम्, केवलंसमानि-ज्ञानादीनि तेषामायो-लाभः समायः स एव सामायिकं-संयमविशेषस्तस्य तदेव वा कल्प:- करणमाचारः, यथोक्तं-सामर्थ्य वर्णनायां च, करणे छेदने तथा। औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः॥ १॥इति सामायिककल्पः, सच प्रथमचरमतीर्थयोः साधूनामल्पकालश्छेदोपस्थापनीयस्य सद्भावाद्, मध्यतीर्थेषु महाविदेहेषु / च यावत्कथिकश्छेदोपस्थापनीयाभावात्, तदेवं तस्य तत्र वा स्थितिर्मर्यादा सामायिककल्पस्थितिः, सा च शय्यातरपिण्ड| परिहारे चतुर्यामपालने पुरुषज्येष्ठत्वे बृहत्पर्यायस्येतरेण वन्दनकदाने च नियमलक्षणा शुक्लप्रमाणोपेतवस्त्रापेक्षया यदचेलत्वं तत्र 1 तथा आधाकर्मिकभक्ताद्यग्रहणे 2 राजपिण्डाग्रहणे 3 प्रतिक्रमणकरणे 4 मासकल्पकरणे 5 पर्युषणकल्पकरणे 6 // 29