________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 201 // तृतीयमध्ययन त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 128 पत्र-फलपुष्योपगवृक्षवत् पुरुष त्रैविध्यम्, (षोडशक 4/5) इति, अथवा पापकर्मणामकरणतायै-तदकरणार्थं त्रिधाऽपि गर्हते, अथवा चतुर्थ्यर्थे षष्ठी ततः पापेभ्यः कर्मभ्यो गर्हते, तानि जुगुप्सत इत्यर्थः, किमर्थं? - अकरणतायै- मा कार्षमहमेतानीति, दीहंऽपेगे अद्धं ति दीर्घ कालं यावत्, तथा कायमप्येकः प्रतिसंहरति-निरुणद्धि, कया?- पापानां कर्मणामकरणतया हेतुभूतया, तदकरणेन तदकरणतायै वा तेभ्यो वा गर्हते, कायं वा प्रतिसंहरति तेभ्योऽकरणतायै तेषामेवेति // अतीते दण्डे गर्दा भवति, सा चोक्ता, भविष्यति च प्रत्याख्यानमिति सूत्रद्वयेन तदाह-तिविहे त्यादि, गतार्थम्, नवरं गरिह त्ति गर्हायाम्, आलापको चेमौ मणसे त्यादि, कायसा वेगे पञ्चक्खाइपावाणं कम्माणं अकरणयाए' इत्येतदन्त एकः, अहवा पच्चक्खाणे तिविहे पं० तं०-दीहंपेगे अद्धं पच्चक्खाइ रहस्संपेगे अद्धं पच्चक्खाइ कायंपेगे पडिसाहरइ पावाणं कम्माणं अकरणयाए इति द्वितीयः, तत्र कायमप्येकः प्रतिसंहरति पापकर्माकरणाय अथवा कायं प्रतिसंहरति पापकर्मभ्योऽकरणाय तेषामेवेति // पापकर्मप्रत्याख्यातारश्च परोपकारिणो भवन्तीति तदुपदर्शनाय दृष्टान्तभूतवृक्षाणां तद्दान्तिकानां च पुरुषाणांप्ररूपणार्थमाह___ततोरुक्खा पं० तं०-पत्तोवते पुष्फोवते फलोवते 1 एवामेव तओ पुरिसजाता पं० तं०- पत्तोवारुक्खसामाणा पुप्फोवारुक्खसामाणा फलोवारुक्खसामाणा 2, ततो पुरिसज्जाया पं० तं०- नामपुरिसे ठवणपुरिसे दव्वपुरिसे 3, तओ पुरिसज्जाया पं०, तं०नाणपुरिसे दंसणपुरिसे चरित्तपुरिसे 4, तओ पुरिसज्जाया पं० तं०- वेदपुरिसे चिंधपुरिसे अभिलावपुरिसे ५,तिविहा पुरिसजाया पं० तं०- उत्तमपुरिसा मज्झिमपुरिसा जहन्नपुरिसा 6, उत्तमपुरिसा तिविहा पं० 20- धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसा अरिहंता भोगपुरिसा चक्कवट्टी कम्मपुरिसा वासुदेवा 7, मज्झिमपुरिसा तिविहा पं० तं०- उग्गा भोगा रायन्ना 8, जहन्नपुरिसा तिविहा पं० तं०- दासा भयगा भातिल्लगा 9 ॥सूत्रम् 128 // नाम-ज्ञानवेदोत्तमधर्मोग्रदासादिभेदाः पुरुषाः (9 आ०) // 201 //