________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयमध्ययन द्विस्थानम्, द्वितीयोद्देशकः सूत्रम् 78 नारकादीनां गत्यागती // 105 // नाश्रितम्, द्वित्वाधिकारादिति // सूत्रोक्तमेव विकल्पद्वयं सर्वजीवेषु चतुर्विंशतिदण्डकेन प्ररूपयन्नाह- नेरइयाण मित्यादि, प्रायः सुगमम्, नवरं तत्थगयावि अन्नत्थगयावि एवमभिलापेन दण्डको नेयो यावत्पञ्चेन्द्रियतिर्यञ्चोऽत एवाह- जावे त्यादि, मनुष्येषु पुनरभिलापविशेषो दृश्यः, यथा इहगतावि एगइया इति, सूत्रकारो हि मनुष्योऽतस्तत्रेत्येवंभूतं परोक्षानासन्ननिर्देश विमुच्य मनुष्यसूत्रे इत्येवं निर्दिशति स्म, मनुष्यभवस्य स्वीकृतत्वेन प्रत्यक्षासन्नवाचिन इदंशब्दस्य विषयत्वादिति, अत एवाह- मणुस्सवज्जा सेसा एक्कगम त्ति, शेषाः- व्यन्तरज्योतिष्कवैमानिका एकगमा:- तुल्याभिलापाः, ननु प्रथमसूत्र एव ज्योतिष्कवैमानिकदेवानां विवक्षितार्थस्याभिहितत्वात् किं पुनरिह तद्भणनेनेति?, उच्यते, तत्रानुष्ठानफलदर्शनप्रसङ्गेन भेदतश्चोक्तत्वाद, इह तु दण्डकक्रमेण सामान्यतश्चोक्तत्वादिति न दोषो, दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिरितरोक्तौ त्वितरेति // तत्रगता वेदनां वेदयन्तीत्युक्तमतो नारकादीनां गतिं तद्विपर्यस्तामागतिं च निरूपयन्नाह नेतिया दुगतिया दुयागतिया पं० तं०- नेरइए 2 सुउववज्जमाणे मणुस्सेहिंतो वापंचिंदियतिरिक्खजोणिएहिंतो वा उववज्जेज्जा, से चेवणं से नेरइए णेरइयत्तं विप्पजहमाणे मणुस्सत्ताए वा पंचेंदियतिरिक्खजोणियत्ताए वा गच्छेज्जा, एवं असुरकुमारावि, णवरं, से चेवणंसे असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मणुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छिज्जा, एवंसव्वदेवा, पुढविकाइया दुगतिया दुयागतिया पं० तं०-पुढविकाइए पुढविकाइएसु उववजमाणे पुढविकाइएहिंतो वाणोपुढविकाइएहितो वा उववज्जेज्जा, से चेवणं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा णोपुढविकाइयत्ताए वा गच्छेजा, एवं जाव मणुस्सा॥ सूत्रम् 78 // नेरइए त्यादि दण्डकः कण्ठ्यो , नवरं नैरयिका-नारका द्वयोः- मनुष्यगतितिर्यग्गतिलक्षणयोर्गत्योरधिकरणभूतयोर्गतिर्येषां // 105 //