________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 98 // द्वितीयमध्ययनं द्विस्थानम्, प्रथमोद्देशक: सूत्रम् 74 अवसर्पिण्यादिकाल:, लोकाद्याकाशम् गोणाइणं च गाउम्हा। भूमाहारच्छेदे उवक्कमेणेव परिणामो॥३॥(निशीथभा० ४८३३-३४-३५)अणहारेणं ति स्वदेशजाहाराभावेनेति, भंडसंकंती ति भाजनाद्भाजनान्तरसङ्कान्त्या,खजूरादयोऽनाचरिताः अभयादयस्तु आचरिता इति, परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलमचेतना इति, कथमन्यथाऽचेतनपृथिवीकायपिण्डप्रयोजनाभिधानमिदंस्याद्, यथा- घट्टगडगलगलेवो एमादि पयोयणं बहुहा (ओघनि० 342, पिण्डनि०१५)इति / एव मित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि / द्रवन्ति-गच्छन्ति विचित्रपर्यायानिति द्रव्याणि- जीवपुद्गलरूपाणि तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि, विवक्षितपरिणामवन्त्येव अपरिणतानीति द्रव्यसूत्रं षष्ठम् / दुविहे त्यादि षट्सूत्री, गतिर्गमनं तां समापन्नाः- प्राप्तास्तद्वन्तो गतिसमापन्नाः, ये हि पृथिवीकायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं व्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः, द्रव्यसूत्रेगतिर्गमनमात्रमेव,शेषं तथैवेति ॥दुविहा पुढवी त्यादिषट्सूत्री, अनन्तरं-सम्प्रत्येव समये क्वचिदाकाशदेशे अवगाढा:-आश्रितास्त एवानन्तरावगाढकाः, येषां तु व्यादयः समया अवगाढानां ते परम्परावगाढकाः, अथवा विवक्षितं क्षेत्रं द्रव्यं वाऽपेक्ष्यानन्तरं- अव्यवधानेनावगाढा अनन्तरावगाढा, इतरेतु परम्परावगाढा इति // अनन्तरं द्रव्यस्वरूपमुक्तम्, अधुना द्रव्याधिकारादेव द्रव्यविशेषयोः कालाकाशयोर्द्विसूत्र्या प्ररूपणामाह दुविहे काले पं० तं०- ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव, दुविहे आगासे पं० 20- लोगागासे चेव अलोगागासे चेव ॥सूत्रम् 74 // दुविहे कालेत्यादि / तत्र कल्यते-सङ्घयायतेऽसावनेन वा कलनंवा कलासमूहोवेति काल:- वर्तनापरापरत्वादिलक्षण: - गवादीनां च गात्रोष्मा। भौमाहारव्यवच्छेदे उपक्रमेणैव परिणामः / / 3 / / // 98 //