SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 621 // संसृष्टं मात्रं सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य श्रुतस्कन्ध:२ कल्पन्त इति॥अपरा चतुर्थी पिण्डैषणाऽल्पलेपानाम, सा यत्पुनरेवमल्पलेपंजानीयात्, तद्यथा- पृथुकंइति भुग्नशाल्याद्यपगततुषं चूलिका-१ यावत् तन्दुलपलम्बइति भुग्नशाल्यादितन्दुलानिति, अत्र च पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि, तथाऽल्पं पर्यायजातमल्पं प्रथममध्ययनं पिण्डैषणा, तुषादि त्यजनीयमित्येवंप्रकारमल्पलेपम्, अन्यदपि वल्लचणकादि यावत्परिगृह्णीयादिति ॥अथापरा पञ्चमी पिण्डैषणाऽवगृहीता एकानाम, तद्यथा- स भिक्षुर्यावदुपहृतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजातं ढौकितं जानीयात्, तत्पुनर्भाजनं दर्शयति, दशोद्देशक: सूत्रम् 285 तद्यथा- शरावं प्रतीतं डिण्डिमं कांसभाजनं कोशकं प्रतीतम्, तेन च दात्रा कदाचित् पूर्वमेवोदकेन हस्तो मात्रकं वा धौतं ग्लानपिण्डः स्यात्, तथा च निषिद्धं ग्रहणम्, अथ पुनरेवं जानीयाद्बहुपर्यापन्नः- परिणतः पाण्यादिषूदकलेपः, तत एवं ज्ञात्वा यावद् गृह्णीयादिति॥ पानैषणाच अथापरा षष्ठी पिण्डैषणा प्रगृहीता नाम- स्वार्थं परार्थं वा पिठरकादेरुद्धृत्य चट्टकादिनोत्क्षिप्ता परेण च न गृहीता प्रव्रजितायल वादापितासाप्रकर्षण गृहीता प्रगृहीता तांतथाभूतांप्राभृतिकां पात्रपर्यापन्नांवा पात्रस्थितांवा हस्तस्थितांवा यावत्प्रतिगृह्णीयादिति // अथापरा सप्तमी पिण्डैषणा उज्झितधर्मिका नाम, सा च सुगमा / आसु च सप्तस्वपि पिण्डैषणासु संसृष्टाद्यष्टभङ्गका भणनीया: नवरं चतुर्थ्यां नानात्वमिति, तस्या अलेपत्वात्संसृष्टाद्यभाव इति // एवं पानैषणा अपि नेया भङ्गकाश्चायोज्याः, नवरं चतुर्थ्यां नानात्वम्, स्वच्छत्वाच्च तस्या अल्पलेपत्वम्, ततश्च संसृष्टाद्यभाव इति, आसांचैषणानां यथोत्तरं विशुद्धितारतम्यादेष एव क्रमो न्याय्य इति // 285 // साम्प्रतमेताः प्रतिपद्यमानेन पूर्वप्रतिपन्नेन वा यद्विधेयं तदर्शयितुमाह // 621 // पात्रस्थितां वा ‘पाणिपर्यापन्नां वा' (मु०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy