________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 738 // भावना, भावनाप्रकार: असावपीहैव, नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति / तथा बद्धः अष्टप्रकार श्रुतस्कन्धः२ कर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा बन्धहेतवः मिथ्यात्वाविरतिप्रमादकषाययोगास्तथा बन्धनं- अष्टप्रकार- चूलिका-३ कर्मवर्गणारूपं तत्फलं- चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम्, अन्यद्वा यत्किञ्चित्सुभाषित नियुक्तिः तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रैः, कथित इति // तथा ज्ञानं मम विशिष्टतरं 341-342 भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थः, आदिग्रहणादेकाग्रचित्ततादयो गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयम्, यथा जं अन्नाणी कम्मंखवेइइत्यादि, तथैभिश्च कारणैर्ज्ञानमभ्यसनीयं तद्यथा- ज्ञानसङ्ग्रहार्थं निर्जरार्थं अव्यवच्छित्त्यर्थं स्वाध्यायार्थमित्यादि, तथा ज्ञानभावनया नित्यं गुरुकुलवासो भवति, तथा चोक्तं णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते / य। धन्ना आवकहाए गुरुकुलवासं न मुञ्चन्ति ॥१॥इत्यादिका ज्ञानविषया भावना भवतीति // 338-340 // चारित्रभावनामधिकृत्याह नि०-साहुमहिंसाधम्मो सच्चमदत्तविरई य बंभं च / साहु परिग्गहविरई साहु तवो बारसंगोय॥ 341 // नि०-वेरग्गमप्पमाओ एगत्ता(ग्गे) भावणा य एरिसगं / इय चरणमणुगयाओ भणिया इत्तो तवो वुच्छं / / 342 / / साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमव्रतभावना, तथा सत्यमस्मिन्नेवार्हते प्रवचने साधु-शोभनं नान्यत्रेति द्वितीय - व्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चेहैवा साध्वीति, एवं द्वादशाङ्गंतपइहैव शोभनं नान्यत्रेति॥तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना 0 ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च / धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति / / (r) य परिसंग (मु०)।