________________ भावना, श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 737 // 337-340 भावना प्रकार: नि०-गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया य / पोराणचेइयाणि य इय एसा दंसणे होइ॥३३७॥ श्रुतस्कन्धः२ प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, तद्यथा- गणितविषये- बीजगणितादौ परं पारमुपगतोऽयम्, तथाऽष्टाङ्गस्य चूलिका-३ निमित्तस्य पारगोऽयम्, तथादृष्टिपातोक्ता नानाविधा युक्ती:- द्रव्यसंयोगान् हेतून्वा वेत्ति, तथा सम्यग्- अविपरीता दृष्टि: नियुक्तिः दर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रावचनिकस्याचार्यादेः प्रशंसा कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यदपि गुणमाहात्म्यमाचार्यादेर्वर्णयत: तथा पूर्वमहर्षीणां च नामोत्कीर्तनं कुर्वतस्तेषामेव च सुरनरेन्द्रपूजादिकं कथयतस्तथा चिरन्तनचैत्यानि पूजयत इत्येवमादिकां क्रियां कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीप्रत्येषा प्रशस्ता दर्शनविषया भावनेति ॥३३६-३३७॥ज्ञानभावनामधिकृत्याह नि०- तत्तं जीवाजीवा नायव्वा जाणणा इहं दिट्ठा / इह कज्जकरणकारगसिद्धी इह बंधमुक्खो य॥३३८॥ नि०- बद्धो य बंधहेऊ बंधणबंधप्फलं सुकहियं तु / संसारपवंचोऽवि य इहयं कहिओ जिणवरेहिं॥३३९॥ नि०- नाणं भविस्सई एवमाइया वायणाइयाओय। सज्झाए आउत्तो गुरुकुलवासो य इय नाणे॥३४०।। तत्र ज्ञानस्य भावना ज्ञानभावना- एवंभूतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्, तत्त्वं च जीवाजीवादयो नव पदार्थाः, तेच तत्त्वज्ञानार्थिना सम्यग्ज्ञातव्याः, तत्परिज्ञानमिहैव-आर्हते प्रवचने दृष्ट- उपलब्धमिति, तथेहैव-आर्हते प्रवचने कार्य-8 परमार्थरूपं मोक्षाख्यं तथा करणं-क्रियासिद्धौ प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारक:- साधुः सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च- इहैव मोक्षावाप्तिलक्षणा, तामेव दर्शयति- बन्धः- कर्मबन्धनं तस्मान्मोक्ष:- कर्मविचटनलक्षणः, // 737 //