________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 727 // स्वस्तिकादीनि वेष्टिमानि वस्त्रादिनिर्वर्तितपुत्तलिकादिनि पूरिमाणि त्ति यान्यन्तः पूरणेन पुरुषाधाकृतीनि भवन्ति संघातिमानि चोलकादीनि काष्ठकर्माणि रथादीनि पुस्तकर्माणि लेप्यादीनि चित्रकर्माणि प्रतीतानि मणिकर्माणि विचित्रमणिनिष्पादितस्वस्तिकादीनि, तथा दन्तकर्माणि दन्तपुत्तलिकादीनि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद्गमनाय, एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थः। एवं शब्दसप्तककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्येवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत्समायोज्या इति // 394 ॥साम्प्रतं पञ्चमानन्तरमादितो द्वादशं समाप्तमिति // 2-2-5-12 // | श्रुतस्कन्धः२ चूलिका-२ सप्तसप्तिका, पञ्चमी सप्तैकका रूपम्, सूत्रम् 394 रूपदर्शनार्थ गमननिषेधः // 727 // लेप्यकर्माणि (मु०)।