________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ चूलिका-१ पञ्चममध्ययन वस्त्रैषणा, प्रथमोद्देशकः सूत्रम् 369 वस्त्रग्रहण श्रुतस्कन्धः२ // 691 / / विधिः चेवणं संतियं वत्थं अंतोअंतेणं पडिलेहिजिस्सामि, केवली बूया आ०, वत्थंतेण बद्धे सिया कुंडले वा गुणे वा हिरण्णेवा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह भिक्खूणं पु० जं पुव्वामेव वत्थं अंतोअंतेण पडिलेहिज्जा // 6 // सूत्रम् 369 // इत्येतानि पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षुश्चतसृभिः प्रतिमाभिः वक्ष्यमाणैरभिग्रहविशेषैर्वस्त्रमन्वेष्टं जानीयात्, तद्यथा- उद्दिष्टं प्राक् सङ्कल्पितं वस्त्रं याचिष्ये, प्रथमा प्रतिमा 1, तथा प्रेक्षितं दृष्टं सद् वस्त्रं याचिष्ये नापरमिति द्वितीया 2, तथा अन्तरपरिभोगेन उत्तरीयपरिभोगेन वाशय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया 3, तथा तदेवोत्सृष्टधार्मिकं वस्त्रं ग्रहीष्यामीति चतुर्थी प्रतिमेति 4 सूत्रचतुष्टयसमुदायार्थः। आसांचतसृणांप्रतिमानांशेषो विधिः पिण्डैषणावन्नेय इति // किञ्च- स्यात् कदाचित् णं इति वाक्यालङ्कारे एतया अनन्तरोक्तया वस्त्रैषणया वस्त्रमन्वेषयन्तं साधु परो वदेद्, यथा-आयुष्मन्! श्रमण! त्वं मासादौ गते समागच्छ ततोऽहं वस्त्रादिकं दास्यामि, इत्येवं तस्य न शृणुयात्, शेषं सुगम यावदिदानीमेव ददस्वेति, एवं वदन्तं साधुंपरो ब्रूयाद्, यथा- अनुगच्छ तावत्पुनः स्तोकवेलायां समागताय दास्यामि, इत्येतदपि न प्रतिशृणुयाद्, वदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधुं परो गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदे यथाऽऽनयैतद्, वस्त्रं येन श्रमणाय दीयते, वयं पुनरात्मार्थं भूतोपमर्दैनापरं करिष्याम इति, एतत्प्रकारं वस्त्रं पश्चात्कर्मभयाल्लाभे सति न प्रतिगृह्णीयादिति // तथा- स्यात्पर एवं वदेद्, यथा- स्नानादिना सुगन्धिद्रव्येणाघर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेधं विदध्यात्, अथ प्रतिषिद्धोऽप्येवं कुर्यात्, ततो न प्रतिगृह्णीयादिति // एवमुदकादिना धावनादिसूत्रमपि // स परो वदेद्याचितः, सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि पूर्ववन्निषेधादिकश्चर्च इति // किञ्च स्यात्परो याचितःसन् कदाचिद्वस्त्रं // 691 //