________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 683 // श्रुतस्कन्धः२ चूलिका-१ चतुर्थमध्ययनं भाषाजातम्, द्वितीयोद्देशकः क्रोधोत्पत्ति वर्जन सूत्रम् 360-361 भाषणविधिः ॥९॥से बहु० पेहाएतहाविएवं वइजा, तं०-रूढाइ वा बहुसंभूया इवा थिराइवा ऊसढाइवा गब्भिया इवा पसूया इवा ससारा इवा, एयप्पगारंभासं असावलं जाव भासि०॥१०॥सूत्रम् 361 // स भिक्षुर्गवादिकं परिवृद्धकायं पुष्टकायं प्रेक्ष्य नैतद्वदेत्, तद्यथा- स्थूलोऽयं प्रमेदुरोऽयं तथा वृत्तस्तथा वध्यो वहनयोग्यो वा, एवं पचनयोग्यो देवदत्तादेः पातनयोग्यो वेति, एवमादिकामन्यामप्येवंप्रकारां सावद्यां भाषां नो भाषेतेति // भाषणविधिमाह-सभिक्षुर्गवादिकं परिवृद्धकायंप्रेक्ष्यैवं वदेत्, तद्यथा-परिवृद्धकायोऽयमित्यादि सुगममिति // तथा-स भिक्षुः विरूपरूपाः नानाप्रकारा गाः समीक्ष्य नैतद्वदेत, तद्यथा दोहनयोग्या एता गावो दोहनकालो वा वर्त्तते तथा दम्य: दमनयोग्योऽयं गोरहक: कल्होटकः, एवं वाहनयोग्यो रथयोग्यो वेति, एवं प्रकारां सावधां भाषां नो भाषेतेति // सति कारणे भाषणविधिमाह-स। भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात्, तद्यथा- जुवंगवे त्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा तथा महद्वया एवं संवहन इति, एवंप्रकारामसावद्यां भाषां भाषेतेति // किञ्च-स भिक्षुरुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत्, तद्यथा- प्रासादादियोग्या अमी वृक्षा इति, एवमादिकां सावद्यां भाषां नो भाषेतेति // यत्तु वदेत्तदाह-स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत्, तद्यथा- जातिमन्तः सुजातय इति, एवमादिकां भाषामसावद्यां संयत एव भाषेतेति // किञ्च-स भिक्षुर्बहुसंभूतानि / वृक्षफलानि प्रेक्ष्य नैवं वदेत्, तद्यथा- एतानि फलानि पक्वानि पाकप्राप्तानि, तथा पाकखाद्यानि बद्धास्थीनि गर्ताप्रक्षेपकोद्रवपलालादिना विपच्य भक्षणयोग्यानीति, तथा वेलाचितानि पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, टालानि अनवबद्धास्थीनि कोमलानीति यदुक्तं भवति, तथा द्वैधिकानि इति पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि 0 देवतादे: (मु०)। 0 कोमलास्थीनीति (मु०)।