________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 678 // श्रुतस्कन्धः 2 चूलिका-१ चतुर्थमध्ययनं भाषाजातम्, प्रथमोद्देशकः वचनविभक्तिः सूत्रम् 357 भाषणविधिः क्रियां यावदभूतोपघातिनी मनसा पूर्व अभिकाङ्ग्य पर्यालोच्य सर्वदा साधुर्भाषां भाषेतेति // 356 // किञ्च से भिक्खूवा 2 पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वइजा- होलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्खेत्ति वा घडदासित्ति वा साणेत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसावइत्ति वा, एयाई तुमंतेजणगावा, एअप्पगारं भासंसावलं सकिरियं जाव भूओवघाइयं अभिकंख नो भासिज्जा ॥१॥से भिक्खू वा० पुमं आमंतेमाणे आमंतिए वा अप्पडिसुणेमाणे एवं वइजा-अमुगेइ वा आउसोत्ति वा आउसंतारोत्ति वा सावगेत्ति वा उवासगेत्ति वा धम्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगारं भासं असावजंजाव अभिकंख भासिज्जा ॥२॥से भिक्खू वा 2 इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणे नो एवं वइजा होलीइ वा गोलीति वा इत्थीगमेणं नेयव्वं ॥३॥से भिक्खूवा 2 इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणी एवं वइज्जा-आउसोत्ति वा भइणित्ति वा भोईति वा भगवईति वा साविगेति वा उवासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा, एयप्पगारं भासं असावजं जाव अभिकंख भासिज्जा // 4 // सूत्रम् 357 // स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तं नैवं भाषेत, तद्यथा- होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकौ, तथा वसुले त्ति वृषल: कुपक्षः कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इति वा मायीति वा मृषावादीतिवा, इत्येतानि-अनन्तरोक्तानि त्वमसि तव जनकौवा-मातापितरावेतानीति, एवंप्रकारांभाषां यावन्न भाषेतेति॥ एतद्विपर्ययेण च भाषितव्यमाह-स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तमेवं ब्रूयाद् यथाऽमुक इति वा आयुष्मन्निति वा आयुष्मन्त इति वा तथा श्रावक धर्मप्रिय इति, एवमादिकां भाषां भाषेतेति॥एवं स्त्रियमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति // 357 // पुनरप्यभाषणीयामाह // 678 //