________________ श्रुतस्कन्धः२ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 666 // तच्चायुक्तम्, अथ कारणिकस्तेनैव गच्छेत्, कथञ्चित्पतितश्च गच्छगतो वल्ल्यादिकमप्यवलम्ब्य प्रातिपथिकं हस्तं वा याचित्वा संयत एव गच्छेदिति / किञ्च-स भिक्षुर्यदि ग्रामान्तराले यवसं गोधूमादिधान्यं शकटस्कन्धावारनिवेशादिकं वा भवेत् तत्र बह्वपायसम्भवात्तन्मध्येन सत्यपरस्मिन् पराक्रमे न गच्छेत्, शेषं सुगममिति / / 348 // तथा से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पाडिवहिया एवं वइजा-आउ० समणा! केवइए एस गामे वा जाव रायहाणी वा केवईया इत्थ आसा हत्थी गामपिंडोलगा मणुस्सा परिवसंति! से बहुभत्ते बहुउदए बहुजणे बहुजवसे से अप्पभत्ते अप्पुदए अप्पजणे अप्पजवसे?, एयप्पगाराणि पसिणाणि पुच्छिज्जा, एयप्प० पुट्ठो वा अपुट्ठो वा नो वागरिजा // 1 // एवं खलु जसव्वटेहिं० // सूत्रम् 349 // 2-1-3-2 // से तस्य भिक्षोरपान्तराले गच्छत: प्रातिपथिकाः संमुखाः पथिका भवेयुः, ते चैवं वदेयुर्यथाऽऽयुष्मन्! श्रमण! किम्भूतोऽयं ग्राम:? इत्यादि पृष्टो न तेषामाचक्षीत, नापि तान् पृच्छेदिति पिण्डार्थः, एतत्तस्य भिक्षोः सामग्र्यमिति // 349 // तृतीयस्याध्ययनस्य द्वितीयः // 2-1-3-2 // तृतीयमध्ययन ईर्या, द्वितीयोद्देशकः सूत्रम् 349 उदके गमनविधिः तृतीयोद्देशकः सूत्रम् 350 आचार्यादिना सह गमनविधिः // तृतीयाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकःसाम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरंगमनविधिःप्रतिपादितः, इहापिस एव प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से वप्पाणि वा जाव दरीओ वा जाव कूडागाराणि वा पासायाणि वा नूमगिहाणि वा // 666 //