________________ श्रीआचारा नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 59 // श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः | नियुक्तिः 95-97 पृथिवीशस्त्रम् नियुक्ति: 98 पृथिवीवेदना तच्च द्विधा- द्रव्यशस्त्रं भावशस्त्रं च, द्रव्यशस्त्रमपि समासविभागभेदाविधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाह नि०- हलकुलियविसकुद्दालालित्तयमिगसिंगकट्ठमग्गी य / उच्चारे पासवणे एयं तु समासओ सत्थं // 15 // तत्र हलकुलिकविषकुद्दालालित्रकमृगशृङ्गकाष्ठाग्न्युच्चारप्रश्रवणादिकमेतत् समासतः संक्षेपतो द्रव्यशस्त्रम् ॥९५॥विभागद्रव्यशस्त्रप्रतिपादनायाह नि०- किंची सकायसत्थं किंची परकाय तदुभयं किंचि / एयं तु दव्वसत्थं भावे अ असंजमो सत्थं // 96 // किञ्चित्स्वकायशस्त्रं पृथिव्येव पृथिव्याः, किञ्चित्परकायशस्त्रमुदकादि, तदुभयं किञ्चिदिति भूदकं मिलितं भुव इति / तच्च सर्वमपि द्रव्यशस्त्रम्, भावे पुन रसंयमो दुष्प्रयुक्ता मनोवाक्कायाः शस्त्रमिति // 96 // वेदनाद्वारमाह नि०- पायच्छेयण भेयण जंघोरु तहेव अंगमंगेसु / जह हुँति नरा दुहिया पुढविक्काए तहा जाण // 97 // यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखिताः, तथा पृथिवीकायेऽपि वेदनां जानीहि // 97 // यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह नि०- नत्थि य सि अंगमंगा तयाणुरूवा य वेयणा तेसिं / केसिंचि उदीरंती केसिंचऽतिवायए पाणे॥९८॥ * पूर्वार्द्धं गतार्थम्, केषाञ्चित्पृथिवीकायिकानांतदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति / तथा हि भगवत्यां दृष्टान्त उपात्तो यथा- चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आमलकप्रमाणंसचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्, ततस्तेषां पृथिवीजीवानां कश्चित्सङ्घट्टितः कश्चित्परितापितः कश्चिद्व्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति // 18 // वधद्वारमाह