SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः | सूत्रम् 1 संज्ञास्वरूपः |नियुक्ति: 38 संज्ञास्वरूपः | // 21 // वक्ष्यमाणविधिना आख्यात मित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह, इहे ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वाऽऽख्यातमिति संबन्धः, यदि वा इहे ति संसारे एकेषां ज्ञानावरणीयावृतानां प्राणिनां नो संज्ञा भवति संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरम्, सानो प्रजायत इत्यर्थः, उक्तः पदार्थः, पदविग्रहस्य तु सामासिकपदाभावादप्रकटनम्। इदानीं चालना- ननु चाकारादिकप्रतिषेधकलघुशब्दसंभवे सति किमर्थं नोशब्देन प्रतिषेधः इति?, अत्र प्रत्यवस्था, सत्यमेवम्, किंतु प्रेक्षापूर्वकारितया नोशब्दोपादानम्, सा चेयं- अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यथा न घटोऽघट इति चोक्ते सर्वात्मना घटनिषेधः स च नेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनामभिहितास्तासां सर्वासां प्रतिषेधःप्राप्नोतीति कृत्वा, ताश्चेमाः कइणं भंते! सण्णाओ पणत्ताओ?, गोयमा! दस सण्णाओ पण्णत्ताओ, तंजहा- आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसण्णत्ति, (प्रज्ञापना सू०) आसांच प्रतिषेधे स्पष्टो दोषः, अतो नोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथाहि- नोघट इत्युक्ते घटाभावमात्रं प्रतीयते, अर्थप्रकरणादिप्रसक्तनिषेधेन चाप्रसक्तस्य विधानम्, स पुनर्विधीयमानः प्रतिषेध्यावयवो ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तं प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः / स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद् // 1 // इति, एवमिहापि न सर्वसंज्ञानिषेधः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति॥१॥साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाह नि०-दव्वे सच्चित्ताई भावेऽणुभवणजाणणा सण्णा / मति होइ जाणणा पुण अणुभवणा कम्मसंजुत्ता // 38 // 0 कति भदन्त! संज्ञाः प्रज्ञप्ताः?, गौतम! दश संज्ञाः प्रज्ञप्ताः, तद्यथा-आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा क्रोधसंज्ञा मानसंज्ञा मायासंज्ञा लोभसंज्ञा ओघसंज्ञा लोकसंज्ञा / ००क्ते घटाभावमात्रं प्रतीयते अर्थप्रसक्तनिषेधेन चाप्रसक्तस्य (प्र०)। इत्युक्ते यथा घटाभावमात्रं प्रतीयते, तथा प्रकरणादिप्रसक्तस्य विधानम् (मु०)। // 21 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy