SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 20 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः सूत्रम् 1 संज्ञास्वरूप: पणीयः, तं च सामायिकसंयमं स्थिरीकृत्य पक्वेष्टिकापीठतुल्यानि व्रतान्यारोपणीयानि, ततः प्रासादकल्पोऽयमाचारो विधेयः,तत्रस्थश्चाशेषशास्त्रादिरत्नान्यादत्ते, निर्वाणभाक् भवति।साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणलक्षणोपेतं सूत्रमुच्चारणीयम्, लक्षणं त्विदं अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च / लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं // 1 // (आचा०नि० 880) इत्यादि, तच्चेदं सूत्रं सुयं मे आउसं! तेणं भगवया एवमक्खायं- इहमेगेसिंणो सण्णा भवइ / / सूत्रम् 1 // सुयं मे आउसं! तेणं भगवया एवमक्खायं इहमेगेसिं णो सण्णा भवति अस्य संहितादिक्रमेण व्याख्या-संहितोच्चारितैव, पदच्छेदस्त्वयं- श्रुतं मया आयुष्मन्! तेन भगवता एवमाख्यातं- इह एकेषां नो संज्ञा भवति / एकं तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साम्प्रतं सूत्रपदार्थः समुन्नीयते- भगवान् सुधर्मस्वामी जम्बूनाम्न इदमाचष्टे यथा- श्रुतं आकर्णितमवगतमवधारितमितियावद्, अनेन स्वमनीषिकाव्युदासः, मयेति साक्षान्न पुनः पारम्पर्येण आयुष्मन्नि ति जात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्, इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य च तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा- आमृशता भगवत्पादारविन्दमिति अनेन विनय आवेदितो भवति, आवसता वा तदन्तिके इत्यनेन गुरुकुलवासः कर्त्तव्य इत्यावेदितं भवति, एतच्चार्थद्वयं आमुसंतेण आवसंतेणे त्येतत्पाठान्तरमाश्रित्यावगन्तव्यमिति, भगवते ति भगः- ऐश्वर्यादिषडर्थात्मकः सोऽस्यास्तीति भगवान् तेन, एव मिति ___®अल्पग्रन्थं महार्थं द्वात्रिंशद्दोषविरहितं यच्च / लक्षणयुक्तं सूत्रमष्टभिश्च गुणैरुपपेतम् // 1 // चूर्ण्यभिप्रायेण द्वितीयसूत्रावतरणमेतत्। पत्तेयं पत्तेयं (गणहरा) सिस्सेहिं पञ्जुवासिज्जमाणा एवं भणंति-'सुयं मे० (इति चूर्णिः)। 0 विन्दम्, अनेन (मु०)। // 20 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy