SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 521 // अचेलए तओचाइ तंवोसज्ज वत्थमणगारे॥सू०गा० 45 // श्रुतस्कन्धः१ आर्यसुधर्मस्वामी जम्बूस्वामिने पृच्छते कथयति, यथाश्रुतं यथासूत्रं वा वदिष्यामि, तद्यथा-असौं श्रमणो भगवान् नवममध्ययनं उपधानश्रुतं, वीरवर्द्धमानस्वाम्युत्थाय- उद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य पञ्चमुष्टिकं लोचं विधायैकेन देवदूष्येणेन्द्रक्षिप्तेन युक्तः प्रथमोद्देशकः कृतसामायिकप्रतिज्ञ आविर्भूतमन:पर्यायज्ञानोऽष्टप्रकारकर्मक्षयार्थं तीर्थप्रवर्त्तनार्थं चोत्थाय संख्याय ज्ञात्वा तस्मिन् हेमन्ते नियुक्ति: 284 सूत्रम् मार्गशीर्षदशम्यां प्राचीनगामिन्यां छायायां प्रव्रज्याग्रहणसमनन्तरमेव रीयते स्म विजहार, तथा च किल कुण्डग्रामान्मुहूर्त्तशेषे / (अनुष्टुप्) दिवसे कर्मारग्राममाप, तत्र च भगवानित आरभ्य नानाविधाभिग्रहोपेतो घोरान् परीषहोपसर्गानधिसहमानो महासत्त्वतया 42-45 उपसर्गम्लेच्छानप्युपशमं नयन् द्वादश वर्षाणि साधिकानि छद्मस्थो मौनव्रती तपश्चचार, अत्र च सामायिकारोपणसमनन्तरमेव सहिष्णुता सुरपतिना भगवदुपरि देवदूष्यं चिक्षिपे, तत्भगवताऽपि निःसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः वीरध्यानम् शक्यत इति कारणापेक्षया मध्यस्थवृत्तिना तथैवावधारितम्, न पुनस्तस्य तदुपभोगेच्छाऽस्तीति / / 42 // एतद्दर्शयितुमाह-न चैवाहमनेन वस्त्रेणेन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि- स्थगयिष्यामि तस्मिन् हेमन्ते तद्वा वस्त्रं त्वक्त्राणीकरिष्यामि, लज्जाप्रच्छादनं वा विधास्यामि, किंभूतोऽसाविति दर्शयति-स भगवान् प्रतिज्ञाया: परीषहाणांसंसारस्य वा पारंगच्छतीति पारगः, कियन्तं कालमिति दर्शयति- यावत्कथं यावज्जीवमित्यर्थः, किमर्थं पुनरसौ बिभर्तीति चेद्दर्शयति- खुरवधारणे स च भिन्नक्रमः, एतद्वस्त्रावज्ञावधारणं तस्य भगवतोऽनुपश्चाद्धार्मिकमनुधार्मिकमेवेति, अपरैरपि तीर्थकृद्भिः समाचीर्णमित्यर्थस्तथा चागमः से बेमि जे य अईया जे य पडुप्पन्ना जे य आगमेस्सा अरहंता भगवन्तो जे य पव्वइंसुं। जे य पव्वयन्ति जे अ पव्वइस्सन्ति सव्वे ते ®स श्रमणो (मु०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy