SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ श्रीआचाराङ्गचतुटव चतुष्टयमेतद्वन्धनसङ्घाताविति च, तथा तत्रैवापरा इमाः क्षपयति, तद्यथा- औदारिकतैजसकार्मणानि शरीराणि एतद्वन्धनानि नियुक्ति त्रीणि सङ्घातांश्च षट् संस्थानानि षट् संहननानि औदारिकशरीराङ्गोपाङ्गं वर्णगन्धरसस्पर्शा मनुष्यानुपूर्व्यगुरुलघूपघातश्रीशीला० वृत्तियुतम् पराघातोच्छ्रासप्रशस्ताप्रशस्तविहायोगतयस्तथाऽपर्याप्तकप्रत्येकस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरानादेयायशः कीर्तिनिर्माणानि तथा नीचैर्गोत्रमन्यतरद्वेदनीयमिति, चरमसमये तु मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तक॥ 520 // सुभगादेययश:कीर्त्तितीर्थकरत्वान्यतरद्वेदनीयायुष्कोच्चैर्गोत्राण्येता द्वादश तीर्थकृत् केषांचिन्मतेनानुपूर्वीसहितास्त्रयोदश अतीर्थकृच्च द्वादशैकादश वा क्षपयति, अशेषकर्मक्षयसमनन्तरमेव चास्पर्शवद्गत्या ऐकान्तिकात्यन्तिकानाबाधलक्षणं सुखमनुभवन् सिद्धा(ध्या) ख्यं लोकाग्रमुपैतीत्ययं गाथातात्पर्यार्थः॥२८३॥साम्प्रतमुपसंहरंस्तीर्थकरासेवनतः प्ररोचनतां दर्शयितुमाह नि०- एवं तु समणुचिन्नं वीरवरेणं महाणुभावेणं / जं अणुचरित्तु धीरा सिवमचलं जन्ति निव्वाणं // 284 // एवं उक्तविधिना भावोपधानं- ज्ञानादि तपो वा वीरवर्द्धमानस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्षुणैतदनुष्ठेयमिति गाथार्थः // 284 // समाप्ता ब्रह्मचर्याध्ययननियुक्तिः॥साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदं अहासुयं वइस्सामि जहा से समणे भगवं उट्ठाए। संखाए तंसि हेमंते अहुणो पव्वइए रीइत्था॥सू०गा० ४२॥णोचेविमेण वत्थेण पिहिस्सामि तंसि हेमंते। से पारए आवकहाए, एयं खु अणुधम्मियं तस्स ॥सू०गा० 43 / / चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म। अभिरुज्झ कायं विहरिंसु, आरुसिया णं तत्थ हिंसिंसु॥सू०गा० ४४॥संवच्छरं साहियं मासंजं न रिक्कासि वत्थगंभगवं। श्रुतस्कन्धः१ नवममध्ययनं उपधानश्रुतं, प्रथमोद्देशक: नियुक्ति: 284| सूत्रम् | (अनुष्टुप्) | 42-45 उपसर्गसहिष्णुता वीरध्यानम् // 520 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy